स्वेच्छा, तदायत्तः पन्थाः, प्राग्वदकारः, तेन गच्छतीति तथा । 'डोऽन्यत्राऽपि' इति डः । अभ्रजलवत् परिवहादिमहावाय्वैकाधारा भवतीति स्वच्छन्दगतिता ॥ १७ ॥
प्रतिगृह्य त्रिलोकार्थंं त्रिलोकहितकारिणः ।
गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना ॥ १८ ॥
या चान्या शैलदुहिता कन्याऽऽसीद्रघुनन्दन !
उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना ॥ १९ ॥
अथ द्वितीयां कन्यां कस्मै ददाविति प्रसङ्गात् तस्य प्रतिपादनं-या चेत्यादि ॥ १९ ॥
उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् ।
रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥ २० ॥
एते ते शैलराजस्य सुते लोकनमस्कृते ।
गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव ! ॥ २१ ॥
एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी ।
खं गता प्रथमं तात ! गतिं गतिमतां वरा ॥ २२ ॥
सैषा सुरनदी रम्या शैलेन्द्रस्य सुता तदा ।
सुरलोकं समारूढा विपापा जलवाहिनी ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चत्रिंशः सर्गः
एतत्त इति । गङ्गोमयोरुत्पत्यादिकमित्यर्थः । यथा त्रिपथगामिनी भवति गङ्गा, तथा प्रतिपादयामीति शेषः । तदेव क्रियते-खामित्यादि । तावच्छब्दो वाक्यालङ्कारे । प्रथमं तावत् खं-खात्मिकां गतिं गता; पश्चात् सुरलोकं च समारूढा अभवत् । अंगार (२३ १/२)मानः सर्गः ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चत्रिंशः सर्गः