पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१ सर्ग:]
267
ते गत्वा दूरमध्वानं शोणाकूलमवाप्नुवन्

 तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः।
 याचितं नरशार्दूल ! सुनाभं सर्वदैवतैः ॥ १२ ॥

 कुतस्तादृशस्य धनुषः तत्र स्थितिरित्यतः-तद्धीत्यादि । उत्तमं धनुः मैथिलेन निजयज्ञप्रीतदेवेभ्यो निजवेश्मनि नित्यस्थिति याचितम् ,सर्वदैवतैश्च तथा दत्तस्थितिकं, तस्य यज्ञफलतया तत्र प्राप्तस्थितिकमित्यर्थः । सुनाभं-शोभना नाभी-मुष्टिबन्धस्थानं यस्य तत् तथा । 'अच्प्रत्यन्वव' इत्यत्र अचीति योगविभागादच् ॥ १२ ॥

 [१]आयागभूतं नृपतेस्तस्य वेश्मनि राघव !
 अर्चितं विविधैर्गन्धैर्माल्यैश्चागरुगन्धिभिः ॥ १३ ॥

 तद्धनुरतस्तस्य नृपतेर्वेश्मनि आयागभूतं-यज्यत इति यागः, कर्मणि घञ्, यजनीयदेवतेति यावत् , तद्भावं प्राप्तं तथा । अत एव-अर्चितमित्यादि ॥ १३ ॥

 [२]एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा ।
 सर्षिसङ्घः सकाकुत्स्थः आमन्त्रय वनदेवताः॥ १४ ॥

 एवमुक्त्वेति । स्वशिष्यमहर्षिसङ्घद्वारेणेति यावत्। मुनिवर:-विश्वामित्रः । वनाधिष्ठात्र्यो देवताः-वनदेवताः ॥ १४ ॥

 स्वस्ति वोऽस्तु गमिष्यामि सिद्धस्सिद्धाश्रमादहम् ।
 [३]उत्तरे जाह्नवीकूले हिमवन्तं शिलोच्चयम् ॥ १५ ॥

 सिद्धः-सिद्धयज्ञोऽहम् । क्व गमिष्यसत्यिपेक्षायां-उत्तरमित्यादि। उत्तरे जाह्नवीकूले वर्तमानं हिमवन्तं शिलोच्चयं गमिष्यामीत्यनुकर्षः ॥ १५ ॥


  1. उत्सवे प्राधान्येनाचितं धनुः आयाग इत्युच्यते-गो,
  2. पूर्वं विश्वामित्रं पुरस्कृत्येत्यभिधानात् । विश्वामित्रस्यापि वचनेऽन्वयो वर्तत इत्यभिप्रायेणैवमुक्तम् ॥
  3. एतदनन्तरं-इत्युक्त्वा मुनिशार्दूल: कौशिकस्स तपोधनः-इदमधिकं-ङ.