त्वं चैव नरशार्दूल! सहास्माभिर्गमिष्यसि ।
अद्भुतं च धनूरत्नं तत्र तद्द्रष्टुमर्हसि ॥ ७ ॥
यदा अस्माभिस्सह गमिष्यसि तदा अद्भुतमिति योज्यम् । धनूरलमिति । धनेरौणादिक उस्प्रत्ययः, धनुश्च तद्रत्नं तथा ॥ ७ ॥
तद्धि पूर्वंं नरश्रेष्ठ ! दत्तं सदसि दैवतैः ।
अप्रमेयबलं घोरं मखे परमभास्वरम् ॥ ८ ॥
तद्धि धनूरत्नं माहेश्वरम्, पूर्वं-पूर्वस्मिन् काले, देवान् यजतः सीरध्वजाख्यस्य प्राचीनजनकस्य यज्ञसदसि देवैस्तन्नगर एव सन्तानपरम्परयाऽवस्थानार्थंं दत्तं ; अतस्तत्र तिष्ठतीति शेषः । अप्रमेयबलत्वादि विशेषणं तत् मखे जनकीये द्रक्ष्यसीत्यनुकर्षः ॥ ८ ॥
नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः ।
कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥ ९ ॥
पूर्वमद्भुतमित्युक्तं, कीदृशं तदित्यपेक्षायामुच्यते—नास्येत्यादि । आरोपणमिति । ज्यारोपणमिति यावत् ॥ ९ ॥
धनुषस्तस्य वीर्यं तु जिज्ञासन्तो महीक्षितः ।
न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥ १० ॥
जिज्ञासन्त इति । जिज्ञासमाना इति यावत् । राजवेश्मन्यर्चितमिति योजना (१) ॥ १० ॥
तद्धनुर्नरशार्दूल! मैथिलस्य महात्मनः ।
तत्र द्रक्ष्यसि काकुत्स्थ ! यज्ञं चाद्भुतदर्शनम् ॥ ११ ॥
तत्र द्रक्ष्यसीति । मिथिलायां राजवेश्मनीत्यर्थः ॥ ११ ॥