पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१ सर्गः]
265
ततस्ताभ्यां प्रतस्थे सः कौशिको मिथिलां प्रति

 प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ ।
 विश्वामित्रं मुनींश्चान्यान् सहितावभिजग्मतुः ॥२॥

 कृता पौर्वाह्निकी क्रिया याभ्यां तौ तथा । 'पुंवत्कर्मधारय' इति पुंवद्भावः । सहितौ-युगपत्समवेतौ ॥ २ ॥

 अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् ।
 ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ ॥३॥

 मुनिश्रेष्ठं-विश्वामित्रम् ॥ ३ ॥

 इमौ स्म मुनिशार्दूल किङ्करौ समुपागतौ ।
 आज्ञापय यथेष्टं वै शासनं करवाम किम् ॥ ४ ॥

 स्मेत्यव्ययम्, समुपागतौ स्म-आगतावभूव ॥ ४ ॥

 एवमुक्तस्ततस्ताभ्यां सर्व एव महर्षयः।
 विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥ ५॥

 एवं विश्वामित्रनियोगप्रार्थनायां विश्वामित्रेण कृता या रामविसर्जनशङ्का तद्व्यावृत्तये रामाभ्युदयसंपिपादयिषवः ऋषय एव रामं कृत्यविषेशे नियुञ्जत इत्युच्यते-एवमुक्त इत्यादि । विश्वामित्रं पुरस्कृत्येति । कृतविश्वामित्रानुमतिका इति यावत् ॥५॥

 मैथिलस्य नरश्रेष्ठ ! जनकस्य भविष्यति ।
 यज्ञः परमधर्मिष्ठस्तस्य यास्यामहे वयम् ॥ ६॥

 मिथिलाया ईश्वरो मैथिलः, 'तस्येश्वरः' इत्यण् । अतिशयेन धर्मवान्–धर्मिष्ठः, इष्ठनि, 'विन्मतोर्लुक् ' इति मतुपो लुक् । वयमिति । सविश्वामित्रा इत्यर्थः ॥ ६॥