पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
264
[बालकाण्डः
मिथिलाप्रस्थानम्

 शेषान् वायव्यमादाय निजघान महायशाः ।
 राघवः परमोदारो मुनीनां मुदमावहन् ॥ २२ ॥

 निजघानेति । दूरोत्सारणपूर्वकविनाशनं वायव्यास्त्रफलं, न तूच्चाटनमात्रमिति दर्शितम् ॥ २२ ॥

 स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः ।
 ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ॥ २३ ॥
 अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।
 निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥ २४ ॥

 निरीतिकाः-निर्बाधाः ॥ २४ ॥

 कृतार्थोऽस्मि महाबाहो ! कृतं गुरुवचस्त्वया ।
 [१]सिद्धाश्रममिदं सत्यं कृतं राम ! महायशः ! ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिंशः सर्गः


 सत्यं कृतमिति । अन्वर्थनाम कृतमित्यर्थः । मार्ग (२५)मानः सर्गः ॥ २५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकण्डे त्रिंशः सर्गः


अथ एकत्रिंशः सर्गः
[मिथिलाप्रस्थानम् ]

 अथ तां रजनीं तत्र कृतार्थौ रामलक्ष्मणौ ।
 ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥ १ ॥

 एवं स्वयज्ञविघ्ननिवृत्तिनान्तरप्रयोजनं सर्वास्त्रशक्तिसम्बन्धानुग्रहं कृत्वा भगवान् विश्वामित्रस्ततस्सहजलक्ष्मीशक्तिसम्बन्धानुग्रहाय प्रवर्तते-अथ तामित्यादि । तत्रेति । यज्ञशालायामित्यर्थः ॥ १ ॥


  1. एतदनन्तरं 'स हि रामं प्रशस्यैवं ताभ्यां सन्ध्यामुपागमत्' इत्यधिकं-ङ.