पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
262
[बालकाण्डः
यज्ञसंरक्षणम्

 मारीचश्च सुबाहुश्च तयोरनुचराश्च ये ।
 आगम्य भीमसङ्काशा रुधिरौघमवासृजन् ॥ १२ ॥

 कौ तौ ? किं तद्विचित्रकार्यमित्यतः—मारीच इत्यादि ॥ १२ ॥

 [१]सा तेन रुधिरौघेण वेदिर्जज्वाल मण्डिता ।
 सहसाऽभिद्रुतो रामः तानपश्यत् ततो दिवि ॥ १३ ॥

 रुधिरौघेण मण्डितेति । अभ्याश इति शेष: । अभिद्रुतः-अभित-श्शालां प्रधावन् तत्रादृष्ट्वा ततो दिवि तानपश्यत् ॥ १३ ॥

 [२]तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः ।
 लक्ष्मणं त्वनु संप्रेक्ष्य रामो वचनमब्रवीत् ॥ १४ ॥
 पश्य लक्ष्मण ! दुर्वृत्तान् राक्षसान् पिशिताशनान् ।
 [३]मानवास्त्रसमाधूताननिलेन यथा घनान् ॥ १५ ॥

 अनु-पश्चात् । मानवास्त्रसमाधूतान् करोमि, पश्ये, इति योजना ॥ १५ ॥


  1. एतदनन्तरं-दृष्ट्वा वेदिं तथाभूतां सानुजः क्रोधसंयुतः । इदमधिकं-ङ.
  2. एतदनन्तरं-असम्भ्रान्तस्त्वरन् किञ्चित् सज्यं कृत्वा महद्धनुः । इत्याधिकं-ङ.
  3. एतदनन्तरं-करिष्यामि न सन्देहो नोत्सहे हन्तुमीदृशान् । इत्युक्त्वा वचनं रामश्चापे सन्धाय वीर्यवान् ॥ एवं वदन्तं तं दृष्ट्वा धनुःप्रवरपाणिनम् । बालोऽयमिति विशाय तमनादृत्य दुर्मती ॥
    विश्वामित्रस्य तां वेदिं सत्वरावभ्यधावताम् ॥ तानुदीक्ष्य त्वरन् रामः चापमायम्य वीर्यवान् । इत्यधिकं कुत्रचित्-ङ. एतच्छ्लोकत्रयस्थाने कुत्रचित् एव दृश्यते एवं ब्रुवाणं मारीचो बालकं हेममालिनम् । तस्यानुजं च हेमाभं शूरं तूच्छ्रितधन्विनम् ॥ राघवौ श्यामहेमाभौ तावपश्यत्तदा दिवि । दृष्ट्वा तेजस्विनौ तौ च अवधूतश्च तेजसा ॥ अवज्ञाय स तौ विप्रान् प्रधर्षयितुमारभत् । तमापतन्तं रामस्तु प्रहसन् लीलया युतः-ङ.