पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३० सर्गः]
261
ततस्तु कौशिकस्तत्र यज्ञं कर्तुमुपाक्रमत्

 काल इति । पञ्चाहोरात्रलक्षण इत्यर्थः । यत्तः-सज्जः, यती प्रयत्ने, ईदित्वान्निष्ठायां नेट् । अस्मात् 'यजयाच' इत्यादिना नङि तु यत्न इति । समाहितः-एकाग्रचित्तः ॥ ७॥

 रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया ।
 प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता ॥ ८ ॥

 उपाध्यायः-ब्रह्मा । पुरोहितः-उपद्रष्टा । इदमुपलक्षणं ऋत्विगन्तरसाहित्यस्य ॥ ८ ॥

 सदर्भचमसस्रुक्का ससमित्कुसुमोच्चया ।
 [१]विश्वामित्रेण सहिता वेदिर्जज्वाल सर्विजा ॥ ९ ॥

सदर्भाश्चमसाः स्रुवश्च यस्यां सा तथा । समिद्भिः कुसुमोच्चयैश्च सहिता तथा, विश्वामित्रो यजमानः, तेन मण्डिता-भूषिता ॥

 [२]मन्त्रवच्च यथान्यायं यज्ञोऽसौ संप्रवर्तते ।
 आकाशे च महान् शब्दः प्रादुरासीद्भयानकः ॥ १० ॥

 यदा संप्रवर्तते स्म तदा आकाश इति योजना ॥ १० ॥

 आवार्य गगनं मेघो यथा प्रावृषि निर्गतः ।
 तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् ॥ ११ ॥

 यथा प्रावृषि निर्गतो मेघो गगनमावार्य–वारयतेः स्वार्थे णेर्ल्यप्, आवृत्याभिधावति, तथा मायां विकुर्वाणौ । मेघः अतिदुर्घोषातिमहाशब्दमहावर्षादिविचित्रकार्यमिव विचित्रप्रवर्तकौ अभ्यधावतामिति योजनार्थः ॥ ११ ॥


  1. एवमेव सर्वत्र दृश्यते । परन्तु-व्याख्यानुसारेण-'जज्वाल सर्त्विजा वेदिः विश्वामित्रेण मण्डिता' इति स्यात् ॥
  2. एतदनन्तरं 'एवं प्रवर्तिते यज्ञे विश्वामित्रस्य धीमतः ' इत्यधिकं-ङ.