पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३० सर्गः]
259
वामनस्याश्रमः पुण्यस्त्वयमित्यब्रवीन्मुनिः

 एवमुक्तो महातेजा विश्वामित्रो महामुनिः ।
 प्रविवेश ततो दीक्षां नियतो नियतेन्द्रियः ॥ ३० ॥

 नियतः-निगृहीतान्तःकरणः ॥ ३० ॥

 कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ ।
 प्रभातकाले चोत्थाय पूर्वां सन्ध्यामुपास्य च ॥ ३१ ॥
 स्पृष्टोदकौ शुची जप्यं समाप्य नियमेन च ।
 हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम् ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकोनत्रिंशः सर्गः


 कुमाराविति । अभूतोपमेत्युक्तम् । नियमेन जप्यं समाप्य, अग्निहोत्रं—अग्नेर्होत्रं-होमं-औपासनं होमं कृत्वा यज्ञशालायां आसीनं विश्वामित्रमवन्दताम् । एवमग्निहोत्रपदस्य व्याख्यानं 'दीक्षामध्ये नाग्निहोत्रं, न दर्शपूर्णमासाभ्यां यजते' इत्यग्निहोत्रहोमस्य निषेधात् । प्रविवेश-तदा दीक्षाप्रवेशस्य प्रागेवोक्तत्वाच्च । राग (३२) मानः सर्गः ॥ ३२ ॥

इति श्रीमद्रामायणामृतकतकटोकायां बालकाण्डे एकोनत्रिंशः सर्गः


अथ त्रिंशः सर्गः

[यज्ञसंरक्षणम् ]

 अथ तो देशकालज्ञौ राजपुत्रावरिन्दमौ ।
 देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ॥ १ ॥

 अथ प्रक्रान्तदीक्षापारगमनोपदेशः–अथ तावित्यादि । कौशिकं वचोऽब्रूतामिति । दीक्षायां मौनापरिज्ञानादेवं प्रश्नः ॥ १ ॥