पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
258
[बालकाण्ड:
सिद्धाश्रमवृत्तान्तः

 अद्य गच्छामहे राम! सिद्धाश्रममनुत्तमम् ।
 [१]तदाश्रमपदं तात ! तवाप्येतद्यथा मम ॥ २४ ॥

 अनुत्तमं–सर्वोत्तमम् । तातेति उपलालने । हेतौ तत् । एतत् आश्रमपदं यथा मम तथा तवापि सर्वसिद्धिसाधकं सुखावहं च, इति शेषः ॥ २४ ॥

 प्रविशन्नाश्रमपदं व्यरोचत महामुनिः ।
 शशीव गतनीहारः पुनर्वसुसमन्वितः ॥ २५ ॥
 तं दृष्ट्वा मुनयस्सर्वे सिद्धाश्रमनिवासिनः ।
 उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् ॥ २६ ॥

 उत्पत्योत्पत्येति । सन्तोषातिशयादिति शेषः ॥ २५-२६ ॥

 यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते ।
 तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ॥ २७ ॥
 मुहूर्तमिव विश्रान्तौ राजपुत्रावरिन्दमौ ।
 प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ ॥ २८ ॥
 अद्यैव दीक्षां प्रविश, भद्रं ते, मुनिपुङ्गव !
 सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव ॥ २९ ॥

 अद्यैवेति । प्रवेशदिन एवेति यावत् । दीक्षां प्रविशपरिगृहाण । अद्यैवेति वचनं कालविलम्बकस्याप्रयोजकत्वात् तद्दिनस्य पञ्चाङ्गशुद्ध्यादिबहुगुणयुक्तत्वाच्चत्याशयेन । अयं सिद्धाश्रमश्च सिद्धस्स्यात्त्वद्यज्ञसिद्ध्या अन्वर्थसिद्धसंज्ञो भूयात् । 'अत्रैव पुरुषव्याघ्र ! हन्तव्या दुष्टचारिणः' इति याऽभूत् तव वचः, तदपि सत्यमस्तु । राक्षसांश्चात्र हनिष्ये । अतः ते भद्रमस्तु इति योजना ॥ २९ ॥


  1. एतदनन्तरं-इत्युक्त्वा परमप्रीतो गृह्य रामं सलक्ष्मणम् । इत्यधिकं कचित्-ङ.