पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९ सर्गः]
257
स निगृह्य बलिं दैत्यं ररक्षादितिनन्दनान्

 त्रीन् क्रमानथ भिक्षित्वा प्रतिगृह्य च [१]मानदः ।
 आक्रम्य लोकान् लोकात्मा सर्वलोकहिते रतः ॥ २० ॥

 क्रमः-पदविक्षेपः । [२]मानद इति । देवानां पूजाप्रदः ॥ २० ॥

 महेन्द्राय पुनः प्रादात् नियम्य बलिमोजसा ।
 त्रैलोक्यं स महातेजाः चक्रे शक्रवशं पुनः ॥ २१ ॥

 नियम्य-बध्वा ॥ २१ ॥

 तेनैष पूर्वमाक्रान्त आश्रमः श्रमनाशनः ।
 मया तु भक्त्या तस्यैष वामनस्योपभुज्यते ॥ २२ ॥

 तेन–चामनेन । पूर्वमिति । वामनावतारात् पूर्वमित्यर्थः । भक्त्या-वामनावतारवति विष्णौ भक्त्या, तस्य-वामनस्य, एष आश्रमः मयाऽप्यद्य उपभुज्यते । मयेत्यस्मच्छब्दो विश्वामित्रार्थः ॥ २२ ॥

 एतमाश्रममायान्ति राक्षसा विघ्नकारिणः ।
 अत्रैव पुरुषव्याघ्र ! हन्तव्या दुष्टचारिणः ॥ २३ ॥

 अथपूर्वसर्गान्तकृतद्वितीय प्रश्नस्योत्तरम् एतमाश्रममित्यादि ॥ २३ ॥


  1. मेदिनीम्-ज.
    [इदं पाठान्तरं पूर्वपुटगतपाठान्तरशेषभूतम्]
    एतैः किं मम राजेन्द्र तैस्तु नास्ति प्रयोजनम् । अस्मत्पादत्रयाक्रान्तां देहि भूमिं विभो तदा ॥ श्रुत्वा तद्बामनेनोक्तं स्मितं कृत्वाऽसुरोत्तमः । येनेष्टं पूर्यते ब्रह्मस्तत्कुर्मेति ततोऽब्रवीत् ॥ वामनाय महीं दातुं निश्चितेऽसुरसत्तमे । तं निवार्य महाराजं प्राह शुको द्विजोत्तमः ॥ विरिञ्चभवशक्राद्या योगिनश्च सुरासुराः । यं न जानन्ति वेदाश्च स एषो विष्णुरव्ययः ॥ दानारक्ते ततश्शुक्रे शुक्रं राज रोहितम् । गृहीत्वा ताडयामास वैनतेयो महाबलः ॥ पत्न्या सह विनिश्चित्य यजमानो महाबलि: । मायारूपेण देवेशो मम यज्ञं गतो यदि ॥ तदैतद्यज्ञसाफल्यमेवम स्त्विति चाब्रवीत् । इति मत्वोदकं दत्तं वामनाय महात्मने ॥ तव पादत्रयाकान्तां गृहाणाद्य महीं प्रभो । उदके स्पृष्टमात्रे तु विश्वरुपधरो हरिः ॥ तत्रस्थ एव ववृधे येन पूर्णं जगत्त्रयम् । सायुधैर्वाहुभिः पूर्ण दिग्विदिक्सर्वमेव हि ॥
  2. मानं द्यति-खण्डयतीति मानद; निरभिमानो भिक्षित्वेत्यर्थ.-गो.