पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
256
[बालकाण्ड:
सिद्धाश्रमवृत्तान्तः

 पुत्रत्वं गच्छ भगवन् ! अदित्या मम चानघ! ॥ १६ ॥
 भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन !
 शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि ॥ १७ ॥

 किं तद्युष्मद्याचकीयं वरमित्यतः—पुत्रत्वमित्यादि । यवीयान् । 'स्थूलदूर' इत्यादिना यणादिपरलोपगुणौ, कनिष्ठ इति यावत् ॥ १७ ॥

 अयं सिद्धाश्रमो नाम प्रसादात् ते भविष्यति ।
 सिद्धे कर्मणि देवेश ! उत्तिष्ठ भगवन्नितः ॥ १८ ॥

 अयमिति । यत्राश्रमे तपोमयस्त्वं मया देवैश्वानुभूयसे-अयमित्यर्थः । हे भगवन् देवेश ! एतदाश्रमस्थितिसाध्ये तपःकर्मणि सिद्धे सति इह प्रयोजनाभावात् इत उत्तिष्ठ देवकार्याय ॥ १८ ॥

 अथ विष्णुर्महातेजा अदित्यां समजायत ।
 [१]वामनं रूपमास्थाय वैरोचनिमुपागमत् ॥ १९ ॥

 अथ-एवं देवकार्यनियोगानन्तरं ॥ १९ ॥


  1. एतदनन्तरं एवमधिकपाठः कुत्रचित्-ङ.
    छत्री भिक्षुकरूपेण कमण्डलुशिखोज्वलः । तं दृष्ट्वाऽसुरराजेन्द्रो वामनत्वाच्च विस्मितः । माधवोऽयमिति ज्ञात्वा पूजयामास धर्मतः । पूजितस्तेन धर्मात्मा सर्वलोकहिताय वै ॥ आसाद्य यजमानं तमुवाच भगवान् हरिः । स्वस्ति तेऽस्तु महाराज यशश्चातीवशोभनः ॥ वयं दानार्थिनो राजन् ! श्रुत्वा यज्ञमनुत्तमम् । त्वां दृष्ट्वा तव यागेषु किंचिल्लब्धुमिहागताः ॥ वामनेनैवमुक्तस्तु मुद्रा राजा तदाऽब्रवीत् । अद्य मे सफलो यज्ञः कृतार्थोऽस्म्यद्य वामन ॥ त्वदर्थे कल्पितं चैव मम सर्वस्वमेव च । धनौघं रत्नराशि वा भूषणं धान्यसञ्चयम् ॥ ग्रामं वा नगरं वापि राष्ट्रं वा यानमेव वा । हस्त्यश्वरथपत्तीर्वा त्वं लभस्वान्यमेव वा ॥ किमिच्छसि महाबाहो तद्ददामि तवानघ ॥ एवमुक्तस्तदा राज्ञा भगवान् पुरुषोत्तमः । उवाचेषत्स्मितं कृत्वा यजमानं महाबलिम्-ङ ॥