पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९ सर्गः]
255
विष्णुस्तु वामनो भूत्वा तत्पुत्रः समजायत

तपएकारब्धदिव्यलीला विग्रहम् । अत एव-तपात्मकम्, छान्दसमकारान्तत्वम्, यद्वा 'धञर्थे कविधानम्' इति वा, तपनं-तपः, तपेन कृच्छ्रादिलक्षणेन स्वाश्रितेन संस्कृत आत्मा-स्वान्त करणं-प्रत्यगात्मा यस्य स तथा मध्यमपदलोपी समासः । एवं सिद्धाश्रमाचरानुष्ठिततपोमयं त्वाम् अत्रैव सुतप्तेन तपसा-एतद्बलेन पश्यामि ॥ १२ ॥

 शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो !
 त्वमनादिरनिर्देश्यः त्वामहं शरणं गतः ॥ १३ ॥

 शरीर इति । वैराजतावकभूमविग्रह इति यावत् । जगत्-त्रिस्रोतोमात्रम् । अनिर्देश्यं- एतावत्त्वेनाशक्यपरिच्छेदविद्यैश्वर्यादिवैभवम् । शरणं-रक्षितारम् ॥ १३ ॥

 तमुवाच हरिः प्रीतः कश्यपं धूतकल्मषम्
 [१]वरं वरय भद्रं ते वरार्होऽसि मतो मम ॥ १४ ॥

 प्रीतः-सुप्रीतः कश्यपमुवाच । किमिति-वरमित्यादि । वरं-अभीष्टं वरय, 'तत्करोति' इति णिच् । भद्रमस्तु । दिव्य वर्षसहस्रतपसः त्वं वरार्हः- वरदानार्हः इति मम मतोऽसि ॥ १४ ॥

 तच्छ्रुत्वा वचनं तस्य मारीचः काश्यपोऽब्रवीत् ।
 अदित्या देवतानां च मम चैवानुयाचतः ॥ १५ ॥
 वरं वरद ! सुप्रीतो दातुमर्हसि सुव्रत !

 मरीचेः पुत्रो मारीचः । अदित्या इत्यादौ याचमानाया इत्याद्यूह्यम् । देवतानां च याचमानानामिति-प्रागुक्तरीत्येति शेषः ॥१५॥


  1. एतदनन्तरं-किमिच्छसि वरं श्रेष्ठं वरदोऽसि महाद्युते । इत्यधिकं क्वचित्-ङ.