पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
252
[बालकाण्डः
सिद्धाश्रमवृत्तान्तः

स एव कथम् ?-'प्रजापतिर्वा अयमकारः पवमाननित्याश्रितजलप्राधान्यात् । स एव भूप्राधान्येन वेदिसदस्सर्वसान्नाय्यपुरुषाश्वांतसर्वयज्ञसमारम्भात्मना विष्णुशब्दश्च । तत्र जलभूमयस्यापि विराजो ब्रह्मणस्तु जलमूर्तेरेव प्राधान्यम् । विनाऽपि भुवं वायौ जलं तिष्ठति, न विना जलं भूस्तिष्ठति । अपि च जलकृतसंश्लेषा महाचलधृता जलानुग्रहप्रवृत्तसर्वस्त्रोतस्सम्यादिपोषवती च । अतः प्रधानदेवता भगवान् प्रजापतिः । तेन भगवता स्वमनःप्राणदेहप्राधान्यसृष्टा वस्वादयः स्वावयवभूता इत्यङ्गदेवतात्वम् ; प्रयाजादीनां सोमासम्बन्धादुपाङ्गत्वं भगवतः । तत्र वसुसमष्टिर्वासव इन्द्रः । 'रुद्रो वा एष यदग्निः' इत्यादेः रुद्रसमष्टिरग्निः । एताविन्द्राग्नी च समष्ट्या भगवत्सृष्टौ भगवदङ्गेष्वप्रधानाङ्गभूतौ । एतेन यज्ञदेवताश्च सर्वयज्ञयजमानसाधारणाः । कथं ? 'पुरुषे त्वे वाविस्तारामात्मा' 'तदात्मानं स्वयमकुरुत' इत्यादेः । तेजोंऽशप्राधान्येन देवासुरसर्वयजमानोपादानत्वात् भगवान् यज्ञः प्रजापतिः तद्यजमानः प्रत्यगात्मना प्रतितिष्ठति । तस्मिंस्तथा स्थिते तदवयवदेवाश्च तद्यजमानावयवात्मना प्रतितिष्ठन्ति । ते च ते स्वस्वोपादानतः स्वात्मरूपं यज्ञं स्वस्वीययज्ञकर्मणा संस्कृत्य तमेव शाश्वतपरगतिं परलोके प्राप्नुवन्ति । तथा हि श्रुतिः-'यज्ञो वै प्रजापतिः । यज्ञमेव प्रजापतिं संस्करोति । आत्मानमेव तत् संस्करोति । तत्संस्कृतमा-मात्मानम् । अमुष्मिलोकेऽनु परैति' इति । तथा 'स ईश्वर आर्तिमार्तोः । प्रजापतिस्त्वावैनं तत उन्नेतुमर्हती त्याहुः । यत्प्राजापत्ययर्चा पुनरेति । प्रजापतिरेवैनं तत उन्नयति । नार्तिमार्च्छति यजमानः इति । तथा 'प्रजापतिं वा एष ईप्यतीत्याहुः । योऽश्वमेधेन यजते' इत्यादेः । अतस्स्वस्वतत्त्वस्य शाश्वतपरगतेभगवतः प्राप्तये इह पूर्णकामा वा देवाः, असुरादयो वा यजन्त इति राजमार्गः ॥