पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९ सर्गः]
251
निग्रहाय बले:, पूर्व देवा विष्णुमयाचयन्

तद्धविःप्रदानं याग इत्यविवादः । एवं च सर्वदेवतारातिरसुरः किंदेवताप्रीतये कां देवतां किं फलमुद्दिश्य यजतेति । तर्हि चतुर्थ्यन्तश्शब्द एव देवता । यज्ञार्थश्च शब्दोऽनादिश्रुतिरूपः । तत्प्राप्तिश्चादितिसुतानामिव दितिसुतानामपि स्वपितुर्बह्मणः सुलभा । अतो यागप्रवृत्तिरिति । सत्यम् ; अथापि शब्दमात्रात्मिका देवतेति न युज्यते । 'साक्षादेव तद्देवतां प्रीणाति' इति श्रुतेः । अचेतनशब्दस्य प्रीत्याद्ययोगात् । ततो यजमानस्य स्वर्गादिसिद्ध्ययोगाच्च । अत एव क्रियया फलायोगः विततश्चान्यत्र । अतश्शब्दातिरिक्ता शब्दवाच्या सचेतना वज्रादितत्तच्चिह्नोपेतविग्रहवती देवतेत्यास्थेयम् । न च विग्रहवत्त्वे युगपदनेकयागासन्निधानप्रसङ्ग इति; दिव्यैश्वर्यशक्तिमत्त्वेन सक्नुदेवाने कमूर्त्यासर्वयागसान्निध्ये वषट्कारात् । यद्येवं [१]स्थितैवासुरयागानुपपत्तिः ॥

 अत्रोच्यते-तावद्यागप्रवृत्तिमूलकारणश्रुतिलाभस्तु सुरासुराविशेषेण स्वपितुः, अविशिष्टशुक्रबृहस्पत्यादिस्वपुरोहितभ्यो वा । तथा सर्वैरपि श्रौतर्यज्ञैर्यजनीया देवता तत्प्रीता तत्फलदा अत्र चाविशिष्टा । कथं ? सामान्या यज्ञदेवताः 'अष्टौ वसव एकादश रुद्रा द्वादशा दित्याः प्रजापतिश्च वषट्कारश्चैते देवास्सोमपाः, एकादश प्रयाजा एकादशानूयाजा एकादशोपयाजा एते सोमपाः पशुभाजनास्सोमेन सोमपान् प्रीणाति पशुनाऽसोमपान्, उभये हास्यैता देवताः प्रीता अभीष्टा भवन्ति' इति श्रुतेः सोमपासोमपद्विप्रभेदाः । तत्रासोमपा उपाङ्गदेवताः यस्य सोमपा अङ्गदेवताः, प्रधानदेवता मन्त्रमयो भगवान् प्रजापतिः वषट्कारो दानक्रियात्मा च । स एव कथं ? 'प्रजापतिर्वा एष पितायते यद्यज्ञ्ः' इति, 'एष वै प्रजापतिं सर्वं करोति, योऽश्वमेघेन यजते ' इत्यादेः क्रियात्मता भगवतः प्रजापतेः, तथा व्याहृतिजयादिदशहोत्रच्छन्दोवीर्यसप्तदशाक्षरीसावित्रीत्रयीमुखसर्वयज्ञमन्त्रात्मता च ।


  1. स्थिरैव-ग.