पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९ सर्गः]
253
अयाचत् स्वात्मजत्वेन तदा विष्णुं तु काश्यपः

 यद्येवं बल्यादयः कं देवं द्विषन्ति ? कर्मदेवानित्येव । द्विधा देवाः कर्मदेवाः, आजानजदेवा इति । तत्र ये कर्मणा देवानपि जयन्ति, ते कर्मदेवाः । आजानजा भगवदयवभूता अनाद्यन्तनित्यसत्यशब्द-यज्ञमन्त्रार्थभूता यज्ञमन्त्रनित्यसम्बद्धा नित्याश्च, भगवानिव नित्यविद्यैश्वर्यानन्दापहतपाप्मत्वाद्यष्टकल्याणगुणाश्च निसर्गतः । त इमे कर्मदेवप्राप्यगतिरूपाः । 'वसूनां सायुज्यं गच्छति, रुद्राणां सायुज्यं गच्छति' इत्यादेशः । त एते कर्मदेवा विराडादिप्रधानाङ्गपरिचारद्वारा समाजब्रह्मलोकेषु सामाजिकं लोकमेव कर्मबलेन यान्ति, कर्मक्षये च पुनः पतन्ति । द्वारादिब्रह्मलोकभाजस्तु अंशतो नियतावतारोक्ता तारा न पतन्ति । तिष्ठतु तत् । वक्तव्यः बहुप्रपञ्चः । इह एतान् कर्मदेवान् मनुष्या असुरादयश्च भगवदाश्रयबलेन तत्तत्पदात् प्रच्यावयन्ति । अतस्ते चैषां मानुषा-सुरादिभगवद्यज्ञानां विघ्नं कुर्वन्ति । तथा हि "न चैतदिष्टं देवानां मर्त्यैरुपरिवर्तनं । तस्माद्विघ्नन्ति तद्यज्ञं स्वपदच्युतिभीरवः" इति व्यासादिवचनम् । अतः कर्मदेवैस्स्वारातिबलियज्ञविघ्नाय प्रवृत्तिः । तस्यापि तत्पदप्रच्यावनार्थैव यज्ञप्रवृत्तिरिति सिद्धान्तः ॥

 स्वकार्यमिति । स्वेषामस्माकं देवानां कार्यस्वकार्यम् । अभिपद्यतामिति । अन्तर्भावितणिः पदिः, अभितः कायैन सम्पाद्यतामित्यर्थः ॥ ७ ॥

 ये चैनमभिवर्तन्ते याचितार इतस्ततः ।
 यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति ॥ ८ ॥

 तथासम्पादने स्वयमेवोपायं वदन्ति-ये चेति । अभिवर्तन्ते अभितः आगच्छन्ति-इतस्ततः नानादेशादिति यावत् । ये याचितारः यत्र–गोभूहिरण्यादियाचनीयवस्तुविषये यच्च वस्तु याचन्ते, तत्सर्वं तेभ्यो यथावद्यज्ञसाद्गुण्यायावमानादिराहित्येन सत्कारपूर्वं प्रयच्छतीत्यर्थः ॥ ८ ॥