पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
246
[बालकाण्ड:
अस्त्रसंहारग्रहणम्

स्वेच्छया तान् विनियुङक्ते । अत एव नियुक्तो रामो बाढं-तथाऽस्त्वित्युक्त्वा प्रहृष्टेनान्तरात्मना जग्राहेति शेषः ॥ १० ॥

 दिव्यभास्वरदेहाथ मूर्तिमन्तस्सुखप्रदाः ॥ ११ ॥
 केचिदङ्गारसदृशाः केचिद्धूमोपमास्तथा ।
 चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा ॥ १२ ॥
 रामं प्राञ्जलयो भूत्वाऽब्रुवन् मधुरभाषिणः ।

 अथ प्रागुक्तमार्गेण गृहीतदिव्यतादिविशेषणकास्ते प्राञ्जलयो भूत्वा राममब्रुवन्नित्यन्वयः । तत्र प्रह्वा इति शिरःकायप्रावण्यधर्मकाः । अञ्जलेः पुटः-संश्लेषो येषां ते तथा ॥ १२ ॥

 इमे स्म नरशार्दूल ! शाधि किं करवाम ते ॥ १३ ॥

 इमे स्मेति । सन्निहिता वयमित्यर्थः । शाधि–आज्ञापय । शाभावस्याबाघसिद्ध्या 'हुझल्भ्यः-' इति धित्वम् ॥ १३ ॥

 मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ।
 गम्यतामिति तानाह [१]यथेष्ट रघुनन्दनः ॥ १४ ॥

 अथ 'ते किं करवाम' इति विज्ञापितवतोऽस्त्रदेवान्नियुङ्क्तेमानसा इत्यादि । व्याकृतचरश्शब्दः । गम्यतामिति । इदानीमिति शेषः ॥ १४ ॥

 अथ ते राममामन्त्र्य कृत्वा च चाभिप्रदक्षिणम् ।
  [२]एवमस्विति काकुत्स्थमुक्त्वा जग्मुर्यथाऽऽगतम् ॥ १५ ॥


  1. यथेष्टं गम्यतामित्यन्वयः ।
  2. एतदनन्तरं- 'प्रणम्य शिरसा रामं सर्वे सम्मतबिक्रमाः । ततस्तु रामः काकुत्स्थः शासनात् ब्रह्मवादिनः । लक्ष्मणाय च तान् सर्वान् वरास्त्रान् रघुनन्दनः ॥ संहारान् स च संहृष्टः श्रीमांस्तस्मै न्यवेदयत्।' इत्यधिकं क्वचित्-ङ.