पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८ सर्ग:]
247
अपृच्छत् तत्कथां रामो मुनिं, सोऽप्यब्रवीत् कथाम्

 अभितः प्रदक्षिणं-अभिप्रदक्षिणं । एतेनापि रामस्तत्पिता ब्रह्मेति ज्ञेयम् । न हि देवतास्स्वानुग्राह्ये प्रदक्षिणाद्याचरन्ति ॥ १५ ॥

 स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् ।
 गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् ॥ १६ ॥

 स च तानिति । पश्चादुपदिष्टास्त्रांश्चेत्यर्थः । ज्ञात्वेति । मन्त्रतो मूर्तितः प्रयोगतश्चेति शेषः ॥ १६ ॥

 किं न्वेतन्मेघसङ्काशं पर्वतस्याविदूरतः ।
 वृक्षषण्डमितो भाति परं कौतूहलं हि मे ॥ १७ ॥

 अथ वक्ष्यमाणार्थबीजप्रक्षेपः- किं न्वेतदित्यादि । मेघसङ्काशमिति कार्ष्ण्यनैपिड्यात् । पर्वतस्याविदूरतः इतः-इह यद्वृक्षषण्डं भाति, एतत् वनवृक्षषण्डं ? आश्रमवृक्षषण्डं वा ? इति प्रश्नः ॥ १७ ॥

 दर्शनीयमृगाकीर्ण मनोहरमतीव च।
 नानाप्रकारैश्शकुनैः वल्गुनारलङ्कृतम् ॥ १८ ॥
 निस्सृताः स्म मुनिश्रेष्ठ ! कान्ताराद्रोमहर्षणात् ।
 अनया त्ववगच्छामि देशस्य सुखवत्तया ॥ १९ ॥
 सर्वं मे शंस भगवन् ! कस्याश्रमपदं त्विदम् ।

 अथ किञ्चित्समीपगमने स्वयमेवाश्रमीयत्वं वृक्षषण्डस्य ज्ञात्वा 'कस्याश्रमपदम् ?' इति पृच्छति–दर्शनीयेत्यादि । निस्सृताः स्मेति । यतो दर्शनीयमृगाकीर्णत्वादिलक्षणमिदं वृक्षषण्डं, तस्मात्रोमहर्षणात्-भीत्या रोमाञ्चकारात् दुष्प्रवेशभयदुःखावहकष्टारण्यात् निर्गताः स्म । अपि च अनया देशस्य सुखवत्तया चेदमाश्रमपदमित्यवगच्छामि । तदिदं कस्येत्यादि यन्मे जिज्ञासितं, तत्सर्वं शंस ॥ १९ ॥