पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
234
[बालकाण्डः
ताटकावधः

राघवयोः स्वस्त्यस्तु जयश्चास्त्विति, जयं, जयविषयकाशिषं च अभ्यभाषत । प्रायुङ्क्तेति यावत् ॥ १४ ॥

 उद्धून्वाना रजो घोरं ताटका राघवावुभौ ।
 रजोमेघेन महता मुहूर्तं सा व्यमोहयत् ॥ १५ ॥

 रजोमेघेन-[१]तत्प्रादुर्भावनेन रज उद्धन्वानेति योजना ॥ १५ ॥

 ततो [२]मायां समास्थाय शिलावर्षेण राघवौ ।
 अवाकिरत् सुमहता ततश्चक्रोध राघवः ॥ १६ ॥

 ततो मायां समास्थायेति । अन्तर्धानं गत्वेति यावत् । ततश्चुक्रोधेति । शिलावर्षस्य स्वेषामतिपीडा करत्वात् स्त्रीप्रयुक्तदाक्षिण्यं विसृज्य भगवान् क्रोधं प्राप्त इत्यर्थः ॥ १६ ॥

 शिलावर्षं महत्तस्याः शरवर्षेण राघवः ।
 [३]प्रतिहत्योपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥ १७ ॥

 प्रतिहत्य । ल्यप् स्थानिवत्वेन कित्वात् स्वतः पित्वाद्वा अनुनासिकलोपः-निवार्य, अनन्तरं तत्करौ चिच्छेदेति । शिलावर्षादेस्तन्मूलत्वात् ॥ १७ ॥

 ततश्च्छिन्नभुजां श्रान्तां अभ्याशे परिगर्जतीम् ।
 सौमित्रिरकरोत् क्रोधात् हृतकर्णाग्रनासिकाम् ॥ १८ ॥

अभ्याशे-समीपे ॥ १८ ॥


  1. प्रादुर्भवनेन-ग.
  2. मायास्त्रमास्थाय-ङ.
  3. अतिवार्योप-ङ.