पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६ सर्गः]
233
तच्छ्रुत्वा ताटका क्रुद्धा राममेवाभ्यधावत

 पश्य लक्ष्मण ! यक्षिण्या भैरवं दारुणं वपुः ।
 [१]भिन्देरन् दर्शनादस्या भीरूणां हृदयानि च ॥ १० ॥
 एनां पश्य दुराधर्षां मायाबलसमन्विताम् ।
 विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् ॥ ११ ॥

 विनिवृत्तामिति । अस्मदभियानादिति शेषः ॥ ११ ॥

 न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् ।
 वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः ॥ १२ ॥

 कुत एवं निवर्तनमात्रमित्यतः-नहीत्यादि । कथमेवं वक्ति ? ताटकावधं करिष्यामीत्युक्त्वा पुनः 'हन्तुं नोत्सहे' इति । प्राणवियोजनेनापि तत्कृतपीडाभावस्यैव साध्यत्वात् पाणिपादादिछेदनेन वीर्यगतिमाया[२]संहारेणाकिंञ्चित्करत्वस्य [३]सिद्धत्वात्तावता गुरुवचनानुष्ठानस्य च सिद्धत्वात् शूरविगर्हितो माऽस्तु स्त्रीवध इति यावत् ॥ १२ ॥

 एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्च्छिता ।
 उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ॥ १३ ॥

 'धावुञ् गतिशुद्ध्योः' इति, उभयपदित्वादस्य-अभ्यधावत इति ॥ १३ ॥

 विश्वामित्रस्तु ब्रह्मर्षिः हुङ्कारेणाभितर्ज्य ताम् ।
 स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ॥ १४ ॥

 विश्वामित्रस्य दुर्घर्षतेजस्त्वेन तं विसृज्य राममेव मानुषबुद्ध्या धावन्तीं तां ताटकां विश्वामित्रो हुङ्कारेण सामान्यतः अभितर्ज्य,


  1. एतदनन्तरं-एनां पश्य दुराधर्षां निर्भिन्नहृदयां क्षितौ । शयानां शयने वीर धूतपापां भयावहाम् ॥ इदमधिकं-ङ,
  2. संहरौरकिञ्चित्-ग.
  3. सिद्धान्तितत्वात्-ग,