पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
232
[बालकाण्डः
ताटकावधः

 गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च ।
 तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः ॥ ५ ॥

 कुत एवमित्यतः-तव चेत्यादि । चो हेतौ, च-यस्मात्, अप्रमेयस्य तव वचनं कर्तुमेव पितृनियोगः तं कर्तुमुद्यतः, अतो न विचिकित्साप्रसङ्गः ॥ ५ ॥

 एवमुक्त्वा धनुर्मध्ये बध्वा मुष्टिमरिन्दमः ।
 ज्याघोषमकरोत्तीव्रं दिशः शब्देन नादयन् ॥ ६ ॥

 तीव्रं-परुषश्रवणम् ॥ ६॥

 [१]तेन शब्देन वित्रस्ता ताटकावनवासिनः ।

 वित्रस्ताः-भीताः ॥ ७ ॥

 ताटका च सुसङ्क्रुद्धा तेन शब्देन मोहिता ॥ ७ ॥
 तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्च्छिता ।
 श्रुत्वा चाभ्यद्रवद्वेगात् यतः शब्दो विनिस्सृतः ॥ ८ ॥

 मोहिता-किमिदानीं कर्तव्यमिति सम्भ्रान्तचित्ता यतश्शब्दो विनिस्सृतः, तं शब्दं श्रुत्वा तमेव अभिनिध्याय-आलक्ष्य अभ्यद्रवदिति योजना ॥ ८ ॥

 तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् ।
 प्रमाणेनाति [२]वृत्तां च, लक्ष्मणं सोऽभ्यभाषत ॥ ९ ॥

 प्रमाणेन-शरीरप्रमाणेन । अतिवृत्तां-अतिप्रवृद्धाम् ॥ ९ ॥


  1. एतत्पूर्वे–तस्य संरंभमालोक्य सभ्रातुर्मुनिपुङ्गवः । प्रहर्षमतुलं लेभे राम साध्विति चाब्रवीत् इत्यधिकं-ङ.
  2. वृद्धां-ङ.च.