अथ षड्विंशः सर्गः
[ताटकावधः]
मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः ।
राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ॥ १॥
एवं न्यायापनुत्तस्त्रीवधदोषशङ्केन रामेण ताटकावधः । मुनेरित्यादि । अक्लीबं-धृष्टम् ॥ १ ॥
पितुर्वचननिर्देशात् पितुर्वचनगौरवात् ।
वचनं कौशिकस्येति कर्तव्यमविशङ्कया ॥ २ ॥
पितुरित्यादि । 'कौशिकस्य वचनं अविशङ्कया कर्तव्यं त्वया' इत्येवंरूपात् पितुर्वचननिर्देशात्- नियोगात् तस्य च पितुर्वचनगौरवात्-परमाप्तवाक्यत्वेन परमप्रामाण्याच्च भगवन् ! त्वद्वचनं कर्तव्यम्, निश्चितमिति शेषः ॥ २ ॥
अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना ।
पित्रा दशरथेनाहं नावज्ञेयं च तद्वचः ॥ ३ ॥
कदैवं पितुः-मद्वचनं कर्तव्यमिति नियोगः ? इत्यतः–अनुशिष्ट इत्यादि । गुरुमध्य इति । वसिष्ठवामदेवाद्यधिष्ठितनिजसभामध्य इत्यर्थः । नावज्ञेयं च तद्वचः-प्रागुक्तहेतोः ॥ ३ ॥
सोऽहं पितुर्वचः श्रुत्वा शासनाद्ब्रह्मवादिनः ।
करिष्यामि न सन्देहः ताटकावधमुत्तमम् ॥ ४ ॥
एवं पितृवचःश्रुत्वा ततो निष्कम्पप्रवृत्तिः । सोऽहं ब्रह्मवादिनः तव शासनात्-यथाप्राप्तकालात् उत्तमं- उत्तमधर्मभूतताटकावधं करिष्यामि ; न सन्देहः ॥ ४ ॥