पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
226
[बालकाण्डः
ताटकावनप्रवेशः

 इमावित्यादि । या विनाशयति सेयमिति योजना । आवार्यवृद्धिश्छान्दसी, आवृत्य ; निरुध्येति यावत् । अतिक्रान्तोऽर्धमत्यर्धम्, ततः कर्मधारयः, अस्माभिरतीतार्धके योजने-अर्धयोजनदूरे पन्थानमावार्य तिष्ठति ॥ २८ ॥

 अत एव च गन्तव्यं ताटकाया वनं यतः ॥ २९ ॥
 स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् ।
 मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः ॥ ३० ॥

 यतश्चेदं ताटकावनमस्माभिर्गन्तव्यं अत एव हेतोः हे राम ! स्वबाहुबलमाश्रित्य दुष्टचारिणीं मन्नियोगात् त्यक्तस्त्रीवधशङ्को जहि, हत्वा च तमिमं देशं पुनः निष्कण्टकं कुरु ॥ २९-३० ।।

 न हि कश्चिदिमं देशं शक्नोत्यागन्तुमीदृशम् ।
 यक्षिण्या घोरया राम ! उत्सादितमसाया ॥ ३१ ॥

 ईदृशमिति अनुभूयमानाभिनयः॥ ३१ ॥

 एतत्ते सर्वमाख्यातं यथैतद्दारुणं वनम् ।
 यक्ष्या चोत्सादितं सर्वं अद्यापि न निवर्तते ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुर्विंशः सर्गः


 पृष्टोत्तरमुक्तमुपसंह्रियते-एतदित्यादि । दारुणं सर्वमेतद्वनं-ताटकावनं यथा- येन प्रकारेण यक्ष्योत्सादितं, एतत्ते सर्वमाख्यातं । अपि च अद्यापि यक्ष्युत्सादनमस्य वनस्य न निवर्तते, अतो निष्कण्टकं कुरु । [१]लीला (३३) (?) मानः ॥ ३२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुर्विंश सर्गः



  1. एतद्रीत्या तु ३३ श्लोकात्मकोऽयं सर्ग इति ज्ञायते । परन्तु ३२ श्लोका एवं व्याख्यायिषत। पञ्चमश्लोकानन्तरं ङ-प्रभृतिपुस्तके 'शातुकामो महातेजाः सहरामः कनीयसा ' इत्यधिकार्धस्य दर्शनेऽपि अर्थान्तरं तु नोपलभ्यते ।