अथ पञ्चविंशः सर्गः
[ ताटकावृत्तान्तः, तद्वधसमर्थनं च ]
अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् ।
श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥ १ ॥
अथैवं स्त्रीवधे नियोगे सति स्त्रियास्तादृग्बलतद्वधसंशयौ रामस्यापोहति विश्वामित्रः-अथेत्यादि ॥ १ ॥
अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुङ्गव !
[१]कथं नागसहस्रस्य धारयत्यबला बलम् ॥ २ ॥
यदेति। यस्मात् श्रूयन्ते, पुराणादिष्विति शेषः । नागः-गजः । अबलेति[२]साभिप्रायम् ॥ २ ॥
तस्य तद्वचनं श्रुत्वा रामस्य विदितात्मनः ।
विश्वामित्रोऽब्रवीद्वाक्यं शृणु येन बलोत्तरा ॥ ३ ॥
वरदानकृतं वीर्यं धारयत्यबला बलम् ।
वरदानकृतं वीर्य-तत्कृतं बलं च धारयति ॥ ३ ॥
पूर्वमासीत् महायक्षः सुकेतुर्नाम वीर्यवान् ॥ ४ ॥
अनपत्यः शुभाचारः स च तेपे महत्तपः ।
कुतो वरप्राप्तिरित्यतः–पूर्वमित्यादि । ते इति । पुत्रार्थं पितामहमुद्दिश्येति शेषः ॥ ४ ॥
पितामहस्तु संप्रीतस्तस्य यक्षपतेस्तदा ॥ ५ ॥
कन्यारत्नं ददौ राम ! ताटकां नाम नामतः ।
कन्यारत्नमिति । उत्तमदिव्यदेवरूपवतीमित्यर्थः ॥ ५ ॥