साधु साध्विति तं देवाः पाकशासनमब्रुवन् ।
देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता ॥ २३ ॥
शक्रेण कृतां देशस्य पूजां दृष्ट्वा देवाः पाकशासनं साधु साध्वित्यब्रुवन् ॥ २३ ॥
एतौ जनपदौ स्फीतौ दीर्घकालमरिन्दम !
मलदाश्च करूशाश्च मुदितौ धनधान्यतः ॥ २४ ॥
यदेवमतः-एतावित्यादि ॥ २४ ॥
कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी
बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् ॥ २५ ॥
ताटका नाम, भद्रं ते, भार्या सुन्दस्य धीमतः ।
कस्य चिदिति । कियत इति यावत् । कालस्येति । यदा, अपगमे, इति शेषः। ताटका नामाभूत् । हे राम ! ते-तुभ्यम् भद्रं-शुभम् भूयात् । सहस्रनागबलवत्या यक्ष्याः प्रसङ्गे बालस्य त्रासो माभूदिति मध्य एवाशीर्वादो विश्वामित्रस्य ॥ २५ ॥
मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः ॥ २६ ॥
वृत्तबाहुर्महावीर्यो विपुलास्यतनुर्महान् ।
राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः ॥ २७ ।।
यस्याः, उच्यमानविशेषणकायो नित्यं प्रजास्त्रासयते स मारीचः पुत्रः, साऽभूदिति योजना ॥ २६-२७ ॥
इमौ जनपदौ नित्यं विनाशयति राघव !
मलदांश्च करुशांश्च ताटका दुष्टचारिणी ॥ २८ ॥
सेयं पन्थानमावार्य [१]वसत्यत्यर्धयोजने ।
- ↑ वसत्यध्यर्ध-ङ.