पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
222
[बालकाण्ड:
ताटकावनप्रवेशः

 तस्मात् सुस्राव सरसः साऽयोध्यामुपगूहते ।
 सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ॥ ९ ॥

 सा-ब्रह्मसरःप्रवृत्तसृतिरिति यावत् । तस्यास्सरःप्रवृत्तत्वात् सरयूरिति नाम । सरसो यौति-प्रवर्तते इति सरयूः । पूरुषादिवत् दीर्घः ॥ ९ ॥

 तस्यायमतुलः शब्दो जाह्नवीमभि वर्तते ।
 वारिसंक्षोभजो राम ! प्रणामं नियतः कुरु ॥ १० ॥

 तस्यायमिति सन्धिश्च्छान्दसः । अभि-अभिगताया इति यावत् । यदेवमतः–वारिसङ्क्षोभजः ॥ १० ॥

 ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ ।
 तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ॥ ११ ॥

 ताभ्यां-गङ्गासरयूभ्यां ॥ ११ ॥

 स वनं घोरसङ्काशं दृष्ट्वा नृपवरात्मजः ।
 अविग्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् ॥ १२ ॥

 सङ्काशत इति सङ्काशः, घोरसङ्काशं धोररूपमिति । अविप्रहतं [१]अप्रहतं, खिलमिति यावत् [२]। सार्थगमागमाभावात् ॥ १२ ॥

 अहो वनमिदं दुर्गं झिल्लिकागणनादितम् ।
 भैरवैः श्वापदैः पूर्णं शकुन्तैर्दारुणारखैः ॥ १३ ॥


  1. अविप्रहतं-अक्षुण्णं-ति. गो.
  2. जनसञ्चाराभावादित्यर्थः गमागमे-गमनागमने