पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४ सर्गः]
223
गङ्गाया दक्षिणे तीरे विविशुर्गहनं वनम्

 झिल्लिका– "भृङ्गारी चीरिका चीरी झिल्लीका च समा इमाः"(xxxxx) । श्वापदानि-दुष्टमृगाः । दारुणं आरवं येषां ते तथा । शकुन्तो भास उच्यते ॥ १३ ॥

 नानाप्रकारैः शकुनैः वाश्यद्भिर्भैरवस्वनैः ।
 सिंहव्याघ्रवराहैश्च वारणैश्चोपशोभितम् ॥ १४ ॥

 शकुनाः सर्वपक्षिणः। वाश्यद्भिः-कुत्सितं शब्दायमानैः ॥ १४ ॥

 धवाश्वकर्णककुभैः मरुतिन्दुकपाटलैः ।
 सङ्कीर्णं बदरीभिश्च किं न्वेतद्दारुणं वनम् ॥ १५ ॥

 धवः-श्वेताक्षः (xxx) । अश्वकर्ण:-साल:, 'इन्द्रद्रुः ककु-भोऽर्जुनः' (xxx)। किं नु–किमियम् ॥ १५ ॥

 तमुवाच महातेजा विश्वामित्रो महामुनिः ।
 श्रूयतां वत्स काकुत्स्थ ! यस्यैतद्दारुणं वनम् ॥ १६ ॥

 एतद्दारुणं वनं यस्य प्राणिनः स प्राणी श्रूयतामिति योजना ॥ १६ ॥

 एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम !
 मलदाश्च करूशाश्च देवनिर्माणनिर्मितौ ॥ १७ ॥

 तमेव प्रतिपादयितुं पातनिका-एतावित्यादि । स्फीतौ-प्रवृद्ध-धनधान्यौ । मलदाश्च करूशाश्चेति एतौ देवनिर्माणेन निर्मितनामधेयौ ॥ १७ ॥

 पुरा वृत्रवधे राम ! मलेन समभिप्लुतम् ।
 क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् ॥ १८ ॥