राजपुत्रपुरस्कृत इति तृतीयातत्पुरुषः । तीर्त्वेति शेषः । अरिष्टं-कष्टम् । ताटकोपद्रवादिति शेषः । विपर्ययः-अत्ययः ॥ ३ ॥
विश्वामित्रस्तथेत्युक्त्वाा तानृषीनभिपूज्य च ।
ततार सहितस्ताभ्यां सरितं सागरङ्गमाम् ॥ ४ ॥
सागरङ्गमामिति । खच्प्रकरणे 'गमेस्सुप्युपसङ्ख्यानम्' इति खच् ॥ ४ ॥
ततश्शुश्राव वै शब्दमतिसंरम्भवर्धितम् ।
मध्यमागम्य तोयस्य [१]तस्य शब्दस्य निश्चयम् ॥ ५॥
अतिसंरम्भेण-तरङ्गपरस्परसङ्घट्टजक्षोभेण वर्धितं-अतिप्रवृद्धम् । निश्चयमिति । सहज औपाधिको वेति निश्चयम् ॥ ५ ॥
अथ रामस्सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् ।
वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः ॥ ६ ॥
अथ तदनन्तरं-जिज्ञासानन्तरम् । भिद्यमानस्य-परस्परं सङ्घट्य-मानस्य तुमुलः-निबिडः यः ध्वनिः, स किं वारिस्वभावजो वा उतोपाधिजो वेति प्रश्नः ॥ ६ ॥
राघवस्य वचःश्रुत्वा कौतूहलसमन्वितः ।
कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ॥ ७ ॥
कैलासपर्वते राम ! मनसा निर्मित सरः ।
ब्रह्मणा नरशार्दूल ! तेनेदं मानसं सरः ॥ ८ ॥
उपाधिज इति सपातनिकमुत्तरम्-राघवस्येत्यादि । एवमपि प्रश्नो भगवति रामे ब्रह्मणि निज दृढवैभवप्रकटनप्रयोजन: प्रादुर्भूतः ; तदेव प्रतिपाद्यते-एतच्छ्रुत्वेत्यादि ॥ ८ ॥
- ↑ सह रामः कनीयसा-ङ.