पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३ सर्गः]
219
अपूजयन् मुनिश्रेष्ठं तत्रत्या मुनयस्तदा

 इहाद्य रजनीं राम ! वसेम शुभदर्शन !
 पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम् ॥ १६ ॥

 सरितोः-गङ्गासरय्वोः ॥ १६ ॥

 अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् ।
 इह वासः परोऽस्माकं, सुखं वत्स्यामहे निशाम् ।
 स्नाताश्च कृतजप्याच हुतहव्या नरोत्तम ! ॥ १७ ॥

 गङ्गा नद्यादिस्नानादि कर्मभिर्युक्ताः, अत एव शुचयः भूत्वैव पुण्यमाश्रममभिगच्छामहे । व्यत्ययात्तङ् ॥ १७ ॥

 तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा ।
 विज्ञाय परमप्रीता मुनयो हर्षमागमन् ॥ १८ ॥
 अर्घ्यं पाद्यं तथाऽऽतिथ्यं निवेद्य कुशिकात्मजे ।
 रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् ॥ १९ ॥

 तेषां संवदतां; भावलक्षणे षष्ठी । तत्र आश्रमे तेष्वेवं संवदत्सु तान् अदृष्ट्वाऽपि तत्रत्यमुनयस्तपोमहिम्ना दीर्घदर्शन ज्ञानचक्षुषा रामाद्यागमनं विज्ञाय परमप्रीता मुनयः कुशिकात्मजायार्थ्यादिकं निवेद्य हर्षमागमन् ॥ १९ ॥

 सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् ।
 यथार्हमजपन् सन्ध्यामृषयस्ते समाहिताः ॥ २० ॥

 अभिरञ्जयन्निति । भोजनात्परमतिष्ठन्निति शेषः । अजपन्निति । नदीतीर इति शेषः ॥ २० ॥

 तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह ।
 न्यवसन् सुसुखं तत्र कामाश्रमपदे तदा ॥ २१ ॥