पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
218
बालकाण्डः
कामाश्रमकथा

 [१]अवध्यातस्य रुद्रेण चक्षुषा रघुनन्दन !
 व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः ॥ १२ ॥

 ततो देवेशेन महात्मना रुद्रेणावध्यातः-कुत एवमिति ध्यानम्, ज्ञातापराधः, ततो हुङ्कृतः, चक्षुषा दग्धश्च । अयं व्यापारः कस्मिंश्चिदहनि रुद्रमूर्तिभेदेन काममूर्तिभेदस्येति द्रष्टव्यम् । ततः किं इत्यतः-व्यशीर्यन्तेत्यादि । शृ हिंसने । ततश्च कर्तरि श्यन् ॥ १२ ॥

 [२]तत्र गात्रं हतं तस्य निर्दग्धस्य महात्मना ।
 अशरीरः कृतः कामः क्रोधाद्देवेश्वरेण हि ॥ १३ ॥

 तत्र हतमिति । तस्मिन् काले देशे चेत्यर्थः । हिशब्दः प्रसिद्धौ ॥ १३ ॥

 अनङ्ग इति विख्यातः तदाप्रभृति राघव !
 स चाङ्गविषयः श्रीमान् यत्राङ्गं प्रमुमोच ह ॥ १४ ॥

 स चाङ्गविषय इत्यादि । यत्र देशे स कामोऽङ्गं मुमोच ह, तत एवान्वर्थनिर्वचनः श्रीमान् सोऽसौ अङ्गविषयः ॥ १४ ॥

 तस्यायमाश्रमः पुण्यः तस्येमे मुनयः पुरा ।
 शिष्या धर्मपरा नित्यं तेषां पापं न विद्यते ॥ १५ ॥

 [३]तस्मिन्-अस्मिन् देशे वर्तमानः पुण्योऽयमाश्रमः तस्य-स्थाणोः । इमे हि मुनयः इदानीमिह तपस्यन्तस्तस्य दक्षिणामूर्तिरुद्रस्य पुरा-पूर्वकालमारभ्य सन्तानपरम्परया च शिष्याः । यदेवमतः-धर्मपराः-धर्मैकतत्पराः । अतः तेषां कदापि पापं न विद्यते । एतेन प्रश्नद्वयं तत् प्राप्तोत्तरम् ॥ १५ ॥


  1. अवदग्धस्य रौद्रेण-ङ
  2. तस्य गात्रं हृतं तत्र-ङ.
  3. तस्मिन्-तादृश इत्यर्थः ।