पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३ सर्गः]
217
ततः कामाश्रमं प्रापुः, तत्कथां मुनिरब्रवीत्

 तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
 अब्रवीक्छ्रूयतां राम ! यस्यायं पूर्व आश्रमः ॥ ९ ॥

 बालकानामज्ञानमूलाभिवादनादिव्यवहारस्य पितृवत्तुल्यानामतिप्रीतिकरत्वादृषेः बालकवचन श्रवणजसन्तोषात्-प्रहस्येति । अथ कस्यायं पूर्वः? इदानीं कः इह वसतीति प्रश्नयोः प्रथमप्रश्नोत्तरं ब्रूते-अब्रवीदित्यादि । यस्यायमाश्रमः पूर्वः-पूर्वकालाधिष्ठेयोऽभूत् स श्रूयताम् ॥ ९ ॥

 कन्दर्पो मूर्तिमानासीत् काम इत्युच्यते बुधैः ॥ १० ॥

 एवं प्रतिज्ञाय तत्प्रतिपादनाय पातनिका-कन्दर्प इत्यादि । यः काम इति बुधैरुच्यते कन्दर्पपर्यायस्सोऽसौ पुरा मूर्तिमानासीत् ॥ १० ॥

 तपस्यन्तमिह स्थाणुं नियमेन समाहितम् ।
 [१]कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् ।
 धर्षयामास दुर्मेधा हुङ्कृतश्च महात्मना ॥ ११ ॥

 किन्ततः इत्यतः-तपस्यन्तमित्यादि । नियमेन समाहितं-समाहितचित्तम् । इह-आश्रमे । तपस्यन्तं-तपश्चरन्तम् । कर्मणो रोमन्थतपोभ्यां' इत्यादिना तपश्शब्दात् क्यङ्, 'तपसः परस्मैपदं च' इति । तद्वत्स्थाणुं-तद्वदविकल्पसमाधिम् । अथ तपस्समाघेः कृतोद्वाहं-कृतव्युत्थानम् । अत एव समरुद्गणं यथा तथा व्युत्थानकालोचितलीलाविलासदेशं गच्छन्तं देवेशं दुर्मेधाः कामो धर्षयामास-चित्तविकारोस्पादनेनाऽभिभूतवान् ॥ ११ ॥


  1. कृतोद्वाहं-कृतपार्वतीपरिणयं, क्रियाविशेषणमिदम् । गच्छन्तं पार्वतीं प्राप्नुवन्तं-गो. कृतोद्वाहं करिष्यमाणोद्वाहं, यद्वा कृतोद्वाहं गच्छन्तं-उद्वाहं कृत्वा गमिष्यन्तं, वर्तमानसामीप्ये भविष्यति लट्-ती.