पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
216
[बालकाण्डः
कामाश्रमकथा

नित्यप्राप्तत्वात्, स्नानार्ध्यादेः बाह्यानुष्ठानत्वोपदेशाच्च परमजपो गायत्रीजपः ॥ ३ ॥

 कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् ।
 अभिवाद्याभिसंहृष्टौ गमनायाभितस्थतुः ॥ ४ ॥

 अभितस्थतुरिति । अभिमुखौ स्थितौ इति यावत् ॥ ४ ॥

 तौ प्रयातौ महावीर्यौ दिव्यां त्रिपथगां नदीम् ।
 ददृशाते ततस्तत्र सरय्वाः सङ्गमे शुभे ॥ ५ ॥

 तत इति । प्रयाणानन्तरमिति यावत् ॥ ५ ॥

 [१]तत्राश्रमपदं पुण्यमृषीणामुग्रतेजसाम् ।
 बहुवर्षसहस्राणि तप्यतां परमं तपः ॥ ६ ॥

 तत्राश्रमेति । गङ्गासरयूसङ्गमदेश इति यावत् । तप्यतामिति । तपतामिति यावत् । कर्तरि यत् छान्दसः ॥ ६ ॥

 तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् ।
 [२]ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ॥ ७ ॥
 कस्यायमाश्रमः पुण्यः को न्वस्मिन् वसते पुमान् ।
 भगवन् ! श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥ ८ ॥

 वसत इति । वसतीति यावत् ॥ ८ ॥


  1. तत्र-सरयूसङ्गमप्रदेशे आश्रमपदं ददृशाते इति पूर्वश्लोकेनान्ययः । पूर्वश्लोकस्थ 'तत्र' पदस्थ तत्र त्रिपथगां नदीं ददृशाते इति पृथगन्वयः ॥
  2. एतदनन्तरं 'कौतूहलात् तौ धर्मशो वीर्यवन्तं तपोधनम्' इदमधिकम्-ङ.