पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३ सर्गः]
215
तां रात्रिमतिसंहृष्टा ऊषुस्ते सरयूतटे

अथ त्रयोविंशः सर्गः

[कामाश्रमकथा]

 प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः ।
 अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे ॥ १ ॥

 अथ गमनप्रसङ्गात् महारुद्रदिव्यचरितवर्णनं बालकयोः पुण्याय, विस्मयसन्तोषाभ्यां च । प्रभातायामित्यादि । पर्णसंस्तरे-मृदुपर्णादिपरि-कल्पितशयनीये । 'ऋदोरप्' इत्यप् ॥ १ ॥

 कौसल्यासुप्रजाराम ! पूर्वा सन्ध्या प्रवर्तते ।
 उत्तिष्ठ नरशार्दूल ! कर्तव्यं दैवमाह्निकम् ॥ २ ॥

 किमभ्यभाषतेत्यत्राह-कौसल्येत्यादि । शोभना चेयं प्रजा सुप्रजा; अनेन कौसल्याशब्दस्य षष्ठीतत्पुरुषः, ततः 'सुपां सुलुक्' इत्यादिना सम्बुद्धेराकारः, ततोऽन्तरङ्गः सवर्णदीर्घः । उभयाश्रयेनान्तादिवद्भावात् 'आङिचापस्सम्बुद्धौ च' इत्येत्वाभावः । हे कौसल्यासुप्रजा ! कौसल्यासुपुत्र ! एवं महाकौशल्य मार्गानुसारादुक्तं वस्तुतोऽसत् । अपि तु-सुप्रजारूपो रामः- सुप्रजारामः । कौसल्यापदेनास्य षष्ठीतत्पुरुषः । हे कौसल्यापुत्ररामेत्येकं पदम् । पूर्वा सन्ध्या, अत एव आह्निकं-अहनि भवम्, 'कालात् ठञ्', दैवं-कुलदैवतब्रह्मोपासनाविषयं, विशिष्य प्रातर्हिरण्यगर्भोपासनविषयकं च कर्म कर्तव्यम्, अत उत्तिष्ठ ॥ २ ॥

 तस्यर्षेः परमोदारं वचःश्रुत्वा नरोत्तमौ ।
 स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥ ३ ॥

 परमोदारं-गम्भीरम् । कृतोदकाविति । कृतौ बाह्यानुष्ठानाङ्गौ-अर्ध्यप्रदा नावित्यर्थः । परमं जपं ; 'न सावित्रयाः परं जप्यं' इत्यादेः