अथ द्वाविंशः सर्गः
[रामलक्ष्मणयोः प्रस्थानं, विश्वामित्रेण विद्योपदेशश्च]
तथा वसिष्ठे ब्रुवति राजा दशरथस्सुतम् ।
प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ॥ १ ॥
अथ रामविद्यादानानुग्रहैक प्रयोजनागमनाद्विश्वामित्रात् भूष्णूरामब्रह्मणः पुरा खसृष्टनित्यभ्रातृप्रभास्वक महाविद्याशक्तिसम्बन्घोपदेशः-तथा वसिष्ठ इत्यादि । आजुहाव । आहूतं च उच्यमानविशेषण कं ददाविति सम्बन्धः ॥ १ ॥
कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च ।
पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ॥ २ ॥
स्वस्त्ययनं-मङ्गलानुष्ठानम् । मङ्गलैः-मङ्गलाचरणमन्त्रैः, "स्वस्तिरिन्द्रस्वस्ति नो मिमीताम्" इत्यादिभिः ॥ २ ॥
स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथः प्रियम् ।
[१]ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥ ३ ॥
ततो वायुः सुखस्पर्शो विरजस्को ववौ तदा ।
विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् ॥ ४ ॥
अथ यात्रायां सुनिमित्तसम्पत्त्युपदेशः-तत इत्यादि । बिरजस्कः । उरः प्रभृतित्वात् कप् | विश्वामित्रगतमिति द्वितीयासमासः ॥
पुष्पवृष्टिर्महत्यासीत् देवदुन्दुभिनिस्वनैः ।
शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ॥ ५ ॥
- ↑ एतदनन्तरं ततो भूयो बसिष्ठेन मङ्गलैरभिमन्त्रितम् आदाय हृष्टो विप्रोऽभूषिदशा विज्वराऽभवन् ॥ इदमधिकम्-ङ.