पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
210
[बालकाण्डः
रामलक्ष्मणयोः प्रस्थानं

 शङ्खदुन्दुभिनिर्घोषः स्वपुरजः । प्रयाते । प्रयाणोन्मुख इति यावत् ॥ ५ ॥

 विश्वामित्रो ययावग्रे ततो रामो महायशाः ।
 काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥ ६ ॥

 अथ धर्मप्रयुक्तगतिविशेषोपदेशः–विश्वामित्र इत्यादि । धन्वी धनुष्मान् । व्रीह्यादित्वादिनिः । उकारान्तोऽप्यस्ति धनुश्शब्दः ॥ ६ ॥

 कलापिनौ धनुष्पाणी शोभयानौ दिशो दश ।
 विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ ॥ ७ ॥
 अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ ।

 कलापिनौ-सतूर्णारौ । "कलापो भूषणे बर्हे तूणीरे संहतावपि" । शोभयानौ–आने मुगभावश्छान्दसः, प्रकाशयन्ताविति यावत् । प्रत्येकं तूणीरद्वयधारणात् त्रिशीर्षपन्नगोपमानम् । अक्षुद्रौ- अनरपवीर्यादिवैभवौ । अत एवाश्विनोपमानम् ॥ ७ ॥

 तदा कुशिकपुत्रं तु धनुष्पाणी स्वलङ्कृतौ ॥ ८ ॥
 बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महायुती ।
 कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ ॥ ९ ॥
 अनुयातौ श्रिया दीप्तया शोभयेतामनिन्दितौ ।
 स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी ॥ १० ॥

 बद्धं गोधाचर्मकृतमङ्गुलित्राणं ययोस्तौ तथा । शोभयेतामिति । लङि आताम् । अडभावश्छान्दसः । स्थाणुः रुद्रः । अचिन्त्यं-अचिन्त्यवैभवम् । पावकी इति । पावकस्यामेरपत्यम् । अत इञ् ।