पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
208
[बालकाण्डः
वसिष्ठेन दशरथसान्त्वनम्

 [१]एवंवीर्यो महातेजा विश्वामित्रो महायशाः ।
 न रामगमने राजन् ! संशयं गन्तुमर्हसि ॥ १९ ॥

 यदेवमतः-न रामगमन इत्यादि ॥ १९ ॥

 [२]तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः ।
 तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥ २० ॥

 वस्तुतस्तु त्वदनुग्रहप्रयोजनमेव विश्वामित्रागमनमित्याह-तेषामित्यादि । पुनहितार्थायेति । अतिरहस्यानन्यदुर्लभाने कविद्याप्रदानानुग्रहार्थमित्यर्थः ॥ २० ॥

 इति मुनिवचनात् प्रसन्नचित्तः
  रघुवृषभश्च मुमोद भास्वराङ्गः ।
 गमनमभिरुरोच राघवस्य
  प्रथितयशाः कुशिकात्मजाय बुद्ध्या ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकविंशः सर्गः

 भास्वराङ्गः-"स्थेशभास" इति वरच्, भासनशीलाङ्गः, प्रसन्नमुख इति यावत् । मुमोद-व्यत्ययात्परस्मैपदम् । अतो राघवस्य गमनं अभिरुरोच । अतो राघवं कुशिकात्मजाय दातुं च बुध्या अचिन्तयदिति शेषः । करि (२१) मानस्सर्गः ॥ २१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकविंशतितमः सर्गः


  1. एतत्पूर्वे-तेनास्य मुनिमुख्यस्य सर्वशस्य महात्मनः । न किञ्चिदप्यविदितं भूतं भव्यं च राघव–अधिकं ङ.
  2. एतदनन्तरं-धनुर्भृतोऽस्य शक्रस्तु बिभीयात् समरे विभो-हृदमधिकं-ङ.