पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
206
[बालकाण्डः
वसिष्ठेन दशरथसान्त्वनम्

 अकुर्वाणस्येति । प्रतिज्ञांतार्थमननुतिष्ठत इत्यर्थः । इष्टं-अश्वमेधान्तयागः, पूर्तं-वापीकूपतडाकादिप्रतिष्ठा, तयोर्वधः-नाशः भूयात् । भवेदिति यावत् ॥ ७ ॥

 कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः ।
 गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥ ९ ॥

 अथ पुत्रविपत्तिभीतिमपनयति-कृतेत्यादि । शक्ष्यन्तीति । प्रधर्षितुमिति शेषः ॥ ९ ॥

 एष विग्रहवान् धर्म एष वीर्यवतां वरः ।
 एष [१]बुध्याऽधिको लोके तपसश्च परायणम् ॥ १० ॥

 कुत एवं प्रभावः कुशिकपुत्रस्येत्यतः-एष इत्यादि । परं च तत् अयनं-आस्पदं तथा । नातोऽधिकः क्वचित्तपस्वी भूतो भावी वेति यावत् ॥ १० ॥

 एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे ।
 नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति के चन ॥ ११ ॥

 अस्त्रानिति पुल्लिङ्गश्छान्दसः । एनं-एतदवगतमस्त्रसमूहम् ॥ ११॥

 [२]नैवं देवा न ऋषयः नासुरा न च राक्षसाः ।
 गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ १२ ॥

 केचनेत्यस्यैव प्रपञ्चः-नैवं देवा इत्यादि ॥ १२ ॥

 सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः ।
 कौशिकाय पुरा दत्ता यदा राज्यं प्रशासतिं ॥ १३ ॥


  1. विद्याधिको-ङ.
  2. न देवाऋषयः केचित् ङ. च.