पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१ सर्गः]
205
तच्छ्रुत्वां वचनं राज्ञः, समन्युः कौशिकोऽभवत्

 यदीदं ते क्षमं राजन् ! गमिष्यामि यथाऽऽगतम् ।
 मिथ्याप्रतिज्ञः काकुत्स्थ ! सुखीभव सबान्धवः ॥ ३ ॥

 इदमिति । कुलानुचितार्थानुष्ठानमित्यर्थः । मिथ्याप्रतिज्ञ-इत्यादिः व्यङ्ग्योक्तिः ॥ ३ ॥

 तस्य [१]रोषपरीतस्य विश्वामित्रस्य धीमतः ।
 चचाल वसुधा कृत्स्ना विविशुश्च च भयं सुराः ॥ ४ ॥

 धीमत इति । रोषं दृष्ट्वेति शेषः । सुरा भयं विविशुरिति । जगदन्यथाकृतिसमर्थोऽयमद्य च क्रुद्धः किं करिष्यतीति भयम् ॥ ४ ॥

 त्रस्तरूपं स विज्ञाय जगत् सर्वं महानृषिः ।
 नृपति सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥ ५ ॥

 त्रस्तरूपं-भीतस्वरूपं । जगत्-त्रिस्रोतोमात्रं । धरिः-निर्भयः ॥ ५ ॥

 इक्ष्वाकूणां कुले जातस्साक्षाद्धर्म इवापरः ।
 धृतिमान् सुव्रतःश्रीमान् न धर्मं हातुमर्हसि ॥ ६ ॥
 त्रिषु लोकेषु विख्यातो [२]धर्मात्मा इति राधवः ।
 स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ॥ ७ ॥
 संश्रुत्यैवंकरिष्यामीत्यकुर्वाणस्य राघव !
 इष्टापूर्तबधो भूयात् तस्माद्रामं विसर्जय ॥ ८ ॥

 धर्म इवापर इति । इतः पूर्वमिति शेषः । धर्मात्मा इतीति असन्धिश्छान्दसः । स्वधर्मं-सत्यप्रतिज्ञत्वम् ॥ ७ ॥


  1. रोषपरीतस्येत्यादौ सप्तम्यर्थे षष्टी । तस्मिन् रोषपिरीते सतीर्थः-गो.
  2. धर्मात्मा इतीत्यत्र वाक्ये संहिताऽनित्या-गो ॥