पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
204
[बालकाण्डः
वसिष्ठेन दशरथसान्त्वनम्

 सुन्दोपसुन्दयोस्तौ सुतौ युद्धे कालोपमौ-माचिसुबहू इति यावत् । अतः तद्युद्धस्य पुत्रकं न दास्यामीति ॥ २६ ॥

 इति नरपतिजल्पनाद्द्विजेन्द्रं
  कुशिकसुतं सुमहान् विवेश मन्युः ।
 सुहुत इव समिद्भिराज्यसिक्तः
  समभवदुज्वलितो महर्षिवह्निः ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे बालंकाण्डे विंशः सर्गः

 सुहुतः प्रथमं शुष्कसमिद्भिः पश्चादाज्यसिक्तोऽग्निरिवेति योजना । सार (२७) मानः । आहत्य मायास्था (७१५) मानः ॥ २७ ॥

इति श्रीमद्रारामायणामृतकतकटीकायां बालकाण्डे विंशः सर्गः


अथ एकविंशः सर्गः

[वसिष्टेन दशरथसान्त्वनम्]

 तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् ।
 समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥ १ ॥

 एवं स्नेहपाशात् प्राप्तमहानर्थं राजानमन्वर्थपुरोहितस्त्रायत इत्यावेद्यते-तच्छ्रुत्वेत्यादि । स्नेहेन पर्याकुलानि-गद्गदान्यक्षराणि यस्मिन् तत्तथा ॥ १ ॥

 पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि ।
 राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ॥ २ ॥

 अर्थमिति । प्रार्थितार्थमित्यर्थः । अयं विपर्यय इति । प्रतिज्ञा-हानिरूपोऽयं विपर्ययः राघवाणामस्य कुलस्यायुक्तः ॥ २ ॥