पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२० सर्गः]
203
अतो मे तनयं बालं नैव दास्यामि राघवम्

परमाचार्याश्च नित्यकृतार्थत्वतः कुतश्चित्किञ्चिदलाभान्न कोपादिविकृतिं प्राप्नुवन्तीत्याशयः ॥ २१ ॥

 देवदानवगन्धर्वाः यक्षाः पतगपन्नगाः ।
 न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ॥ २२ ॥

 रावणसङ्ग्रामाद्वैमुख्यमपि न मे दूषणं अशक्यार्थत्वादित्याहदेवेत्यादि ॥ २२ ॥

 स हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः ।
 तेन चाहं न शक्नोमि संयोद्धुं तस्य वा बलैः ॥ २३ ॥
 सबलो वा मुनिश्रेष्ठ ! सहितो वा ममात्मजैः ।

 वीर्यमादत्त इति । आहरतीति यावत् । तस्य वा बलैः-मारीचादिभिरिति यावत् ॥ २३ ॥

 कथमध्यमरप्रख्यं सङ्क्रामाणामकोविदम् ॥ २४ ॥
 बालं मे तनयं ब्रह्मन् ! नैव दास्यामि पुत्रकम् ।

 अमरप्रख्यं-देवतुल्यरूपादिमन्तम् । तर्हि यज्ञरक्षायै देहि इत्यत्राह-सङ्ग्रामाणामित्यादि । पुत्रकमिति । अनुकम्पायां कन् । अनुकम्पाया विषयभूतमिति यावत् ॥ २४ ॥

 अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः ॥ २५ ॥
  [१]यज्ञविघ्नकरौ तौ, ते नैव दास्यामि पुत्रकम् ।
 [२]तयोरन्यतरेणाहं योद्धा स्यां स सुहृद्गणः ॥ २६ ॥


  1. एतदनन्तरं तौ हि यक्षस्य कन्यायां सुतौ सुन्दोपसुन्दयोः ।
    मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ-अधिकं-ङ.
  2. एतदनन्तरं-अन्यथा त्वनुनेष्यामि भवन्तं सहबान्धवः-अधिकं. ङ.