पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
200
[बालकाण्डः
दशरथसन्तापः

 अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि ।
 यावत्प्राणान् धरिष्यामि तावद्योत्स्ये निशाचरैः ॥ ५ ॥

 [१]अत एव-समरमूर्धनीत्यादि ॥ ५ ॥

 निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता ।
 अहं तत्र गमिष्यामि न रामं नेतुमर्हसि ॥ ६ ॥
 बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् ।
 न चास्त्रबलसंयुक्तो न च युद्धविशारदः ॥ ७ ॥
 न चासौ रक्षसां योग्यः, कूटयुद्धा हि ते भृशम् ।

 रामनयने काऽनुपपत्तिरित्यतस्तद्वर्णनम्-बाल इत्यादि । ऊनषोडशवर्षत्वादेव बालत्वम् । अत एवाकृत सर्वविद्यश्च । न हि धनुर्वेदे बालस्याधिकारः । अयमेव हेतुरग्रिमविशेषणानामपि सिद्धौ न चासौ रक्षसां योग्य इति । तत्सम्बन्धिनि रण इति शेषः । कुत इत्यतः-कूटेत्यादि । 'कूटं कपटशालादौ' ॥ ७ ॥

 विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ॥ ८ ॥
 जीवितुं मुनिशार्दूल ! न रामं नेतुमर्हसि ।

 तिष्ठतु रामस्य क्षमचिन्ता ; मद्वृत्तान्त एतावानित्याह-विप्रयुक्त इत्यादि ॥ ८ ॥

 अथ वा राघवं ब्रह्मन् ! नेतुमिच्छसि सुव्रत ! ॥ ९॥
 चतुरङ्गसमायुक्तं मया च सहितं नय ।

 अनन्तरोक्तानुपपत्तिपरिहारः-अथवेत्यादि ॥ ९ ॥


  1. यतोऽहं सकलसेनापरिवृत आगच्छामि अत एवेत्यर्थः