पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२० सर्गः]
201
न रामो राक्षसैर्योद्धा, ते हि मायाविनो भृशम्

 षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक ! ॥ १० ॥
 दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि ।

 इतश्चेतश्च [१]रामनयनमयुक्तमित्याह-षष्टिरित्यादि । जातस्य ममेति । अतीतानि तदनन्तरमिति शेषः । दुःखं व्रतोपवासयज्ञदीक्षा-लक्षणम् ॥ १० ॥

 चतुर्णामात्मजानां हि प्रीतिः परमिका मम ॥ ११ ॥
 ज्येष्ठं धर्मप्रधानं च न रामं नेतुमर्हसि ।

 परमिका । परमशब्दात्स्वार्थे कः । 'प्रत्ययस्थात्' इत्यादिना इत्वम् ॥ ११ ॥

 किंवीर्या राक्षसास्ते च कस्य पुत्राश्च ते च के ? ॥ १२ ॥
 कथंप्रमाणाः के चैतान् रक्षन्ति मुनिपुङ्गव ! ।

 अथ सर्वथा रामनयनमन्याय्यमिति प्रतिपादयितुं योद्धव्यरक्षस्वरूपादिप्रश्नः-किंवीर्या इत्यादि । के च त इति । किंनामान इति यावत् । कथंप्रमाणाः-[२]किंवाक्यप्रमाणकाः ॥ १२ ॥

 कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् ॥ १३ ॥
 मामकैर्वा बलैर्ब्रह्मन् ! मया वा कूटयोधिनाम् ।

 तेषां प्रतिकर्तव्यं-प्रतिक्रिया संहारश्च कथं स्यात् ॥ १३ ॥

 सर्वं मे शंस भगवन् ! कथं तेषां मया रणे ॥ १४ ॥
 स्थातव्यं दुष्टभावानां, वीर्योत्सिक्ता राक्षसाः ।


  1. न रामनयनं युक्तं-ग.
  2. ते कस्य वाक्यं प्रमाणयन्तीत्यर्थः । कस्य निदेशे वर्तन्त इति यावत्.