पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२० सर्गः]
199
ऊनषोडशवर्षोऽयं रामो हन्यात् कथं नु तान् !

 ऊनषोडशवर्षो मे रामो राजीवलोचनः ।
 न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥ २ ॥

 ऊनेति । एकेन द्वाभ्यां वा ऊनाः षोडशवर्षाः यस्य स तथा । इदं विशेषणं 'न युद्धयोग्यतामस्य पश्यामि' इत्युक्तिप्रयोजकम्[१] । षोडशवर्षः कुमारः क्षत्रियकुमार एव कवचधरो युद्धार्हः इति शास्त्रम् । अतो रामो विश्वामित्रायतिकाले द्वादशवर्षः पञ्चदशवर्षो वेति काकदन्तपरीक्षायां बहु प्रयतते [२]कश्चित् ॥ २ ॥

 इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः ।
 अनया संवृतो गत्वा योद्धाऽहं तैर्निशाचरैः ॥ ३ ॥

 अक्षोहिणीति।' अक्षादूहिन्यां वृद्धिर्वक्तव्या' । सा च सङ्ख्यादि-पर्वोक्ता-एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते । पतिं तु त्रिगुणामेकां विदुः सेनामुखं बुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥ त्रयो गुल्मा गणो नाम, वाहिनी तु गणास्त्रयः । स्मृतास्त्रित्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥ चमूस्तु पृतनास्तिस्रुश्चम्वस्तिस्रस्त्वनीकिनी । अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः-इति । यस्याहमिति-सन्धिरार्षः । पतिः, पालयिता-'पातेर्डेतिः' ईश्वरः-स्वामी । योद्धेति तृच् । अस्तीति शेषः, तेर्यज्ञविघ्नकरैरिति च शेषः ॥ ३ ॥

 इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः ।
 योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि ॥ ४ ॥


  1. प्रजनकं-ग.
  2. गोविन्दराजः