पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९ सर्गः]
197
स तन्निशम्य राजेन्द्र: खिन्नः प्रत्यब्रवीन्मुनिम्

 यदि मदुक्तार्थो मदूचनमात्रतस्ते हितं न भाति, अथापि त्वदिष्टसंमतानामेव वचनानुयोगं कुर्वित्युच्यते-यद्यपीत्यादि । अनुज्ञारामदानविषयकानुमतिः । [१]ततोऽपि-तदापि वा इति योजनार्थः ॥ १६ ॥

 अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि ।
 दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् ॥ १७ ॥

 नापि चिरविप्रयोगः पुत्रेण ते इत्याह-अभिप्रेतमित्यादि । इष्टमिति यावत् । असंसक्तमिति । अतीतबाल्यत्वान्मातापितृकसक्तिरहितं रामं दातुमर्हसि | हि-यस्मात् यज्ञस्य दशरात्रं-यज्ञसम्बधी दशरात्रपरिमितकाल एव राजीवलोचनं रामं अपेक्षते यज्ञपूर्तये, दशानां रात्रीणां समाहारः, द्विगुरेकवचनम्, ततः 'अहस्सर्व' इत्यादिना सङ्ख्यापूर्वराज्यन्तादप्यच् । 'रात्राह्न' इत्यादिना पुंस्त्वम् । 'कालाध्वनोः' इति द्वितीया ॥ १७ ॥

 नात्येति कालो यज्ञस्य यथाऽयं मम राघव !
 तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥ १८ ॥

 हे राघव-दशरथ ! ममाऽयं यज्ञस्य कालो यथा-यथोक्तकालं च नात्येति-नाभ्याधिककालविलम्बी भवतीत्यर्थः । आवृत्तिरपीह । तदयमर्थः । हे राघव ! ममाऽयं यज्ञस्य कालो यथा नात्येति-नातिपतेत् तथा कुरुष्वेति ॥ १८ ॥

 इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।
 विरराम महातेजा विश्वामित्रो महामुनिः ॥ १९ ॥

 धर्मार्थसहितं-धर्मप्रयोजनसहितम् ॥ १९ ॥

 स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम् ।
 शोकमभ्यागमत्तीव्रं व्यषीदत भयान्वितः ॥ २० ॥


  1. यद्यपीत्यत्र विद्यमानः 'अपिः' 'तत' इत्यनेन योज्य इत्याह-ततोऽपीति,