पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
196
[बालकाण्डः
विश्वामित्रवाक्यम्

 [१]न च [२]पुत्रगतं स्नेहं कर्तुमर्हसि पार्थिव ! ।
 अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ ॥ १३ ॥

 पुत्रं गतं-पुत्रगतम् । 'द्वितीया श्रित' इत्यादिना समासः । अस्मासु विसर्जनप्रतिबन्धभूतमिति शेषः ॥ १३ ॥

 अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् ।
 वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः ॥ १४ ॥

 कुत एवमित्यतः-अहमित्यादि । रामं वेद्मीति । निरतिशयवैभवश्रीहिरण्यगर्भतेजोविभूत्यवताररूपं रामतत्त्वमित्यर्थः । उक्ततत्त्वज्ञानं ब्रह्मर्षिमात्रसिद्धमित्युच्यते-वसिष्ठ इत्यादि ॥ १४ ॥

 यदि ते धर्मलाभं च यशश्च परमं भुवि ।
 स्थितमिच्छसि राजेन्द्र! सुतं मे दातुमर्हसि ॥ १५ ॥

 न केवलं मत्कार्यमात्रसिद्धिः, अपि तु तवापि ; यथेच्छसि तथा कुर्वित्युच्यते-यदीत्यादि । यदि धर्मलाभमिच्छसि, भुवि स्थितं-शाश्वतीं प्रतिष्ठाम् परमं यशश्च यदीच्छसि तदा ते-तव सुतं-रामं मे-मह्यं दातुमर्हसि ॥ १५ ॥

 यद्यप्यनुज्ञां काकुत्स्थ ! ददते तव मन्त्रिणः ।
 वसिष्ठप्रमुखाः सर्वे ततो रामं विसर्जय ॥ १६ ॥


  1. एतदनन्तरम्-दशरात्रस्तु यशश्च तस्मिन् रामेण राक्षसौ । हन्तव्यौ विघ्नकर्तारौ मम पुत्रकृतस्नेहं-ङ. रामं-ङ.
  2. यज्ञस्य वैरिणौ इत्यधिकम-ङ.