पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९ सर्गः]
193
प्रत्युवाच मुनिस्त्वेवं यष्टुमिच्छाम्यहं नृप !

 अथ राजप्रतिश्रुतस्वकार्येण विश्वामित्रेण स्वकार्यप्रवृत्तिरिव देवकार्य एव प्रवृत्तिः। तच्छ्रुत्वेत्यादि । अद्भुतविस्तरं-'दैवतं हि भवान् मम' इत्युक्तेः ; अद्भुतः-विस्मयकरः विस्तरः यस्मिन् 'अथ हृष्टमना राजा' इत्यादिराजवाक्ये तत्तथा । 'प्रथने वावशब्दे' इति व्युपसर्गे घञनिषेधः ॥ १ ॥

 सदृशं राजशार्दूल ! तवैतद्भुवि[१] नान्यतः ।
 महाकुलप्रसूतस्य वसिष्ठव्यपदेशिनः ॥ २ ॥

 सहशमित्यादि । महावंशप्रसूतत्वादिगुणकस्य तवैव एतत्-उक्तरूपं वचनं सदृशम् । कुतः-यस्मादेतादृशवचनं नान्यतः-अन्यस्माद्यस्मादपि कस्माद्राज्ञः समस्ति, अतस्तवैव सदृशं-युक्तरूपम् । वसिष्ठव्यपदेशिनः । व्यपदेशः-नियोगः सोऽस्यास्तीति इनिः । वसिष्ठनियोगवर्तिन इति यावत् । इदमेव सर्वगुणसम्पत्तिमूलम् ॥ २ ॥

 यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् ।
 कुरुष्व राजशार्दूल ! भव सत्यप्रतिश्रवः ॥ ३ ॥

 यत्त्वित्यादि । अतः परं वक्तव्यं हृद्गतं यन्मे वाक्यं अस्ति, तद्विषयकस्य कार्यस्यावश्य[२] कर्तव्यत्वनिश्चयं कुरुष्व । प्रतिश्रवः-प्रतिज्ञा ॥ ३ ॥

 अहं नियममातिष्ठे [३]विध्यर्थं पुरुषर्षभ !
 तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ ॥ ४ ॥


  1. नान्यथा-ड.
  2. कर्तव्यत्वस्य नि-क.
  3. सिध्यर्थ-घ.