पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
192
[बालकाण्डः
विश्वामित्रवाक्यम्

 इतश्च न विमर्शं [१]गन्तुमर्हसीत्युच्यते-मम चेत्यादि ॥ ५७ ॥

 इति हृदयसुखं निशम्य वाक्यं
  श्रुतिसुखमात्मवता विनीतमुक्तम् ।
 प्रथितगुणयशा गुणैर्विशिष्टः
  परम ऋषिः परमं जगाम हर्षम् ॥ ५७ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टादशः सर्गः

 हृदयसुखं अत एव श्रुतिसुखं च । विनीतं-विनयान्वितं यथा तथा उक्तम् । प्रथितगुणयशाः-'ततो मूलैः फलैः पर्णैस्तृणैरिति च वर्तयन् चरन्नन्ततः प्रवृत्तानि । ततोऽपो वायुमाकाशम्' इत्युपदिष्टैः प्रसिद्धै[२]रलौकिकसामान्यतपोगुणैः अम्बा चतुर्व्यूह चतुर्दिगनुष्ठानपरमसाधनैः उपजातब्रह्मदेवाम्बया नूतनस्थिरसर्गप्रवृत्यादिरूपं यशो यस्य स तथा । गुणैः-ब्रह्मर्षित्वप्रापकैश्शमदमतपश्शौ चादिनवगुणैर्वसिष्ठादिवद्विशिष्टः, अत एव परमऋषिः । 'ऋत्यक' इति प्रकृतिभावः । [३]इच्छांश (५७) मानः सर्गः ॥ ५७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टादशः सर्गः


अथ एकोनविंशः सर्गः

[विश्वामित्रवाक्यम् ]

 तच्छ्रुत्वा राजसिह्मस्य वाक्यमद्भुतविस्तरम् ।
 हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ १॥


  1. कर्तुं-ख-ग.
  2. रलोकसामान्य-ग.
  3. अत्र व्याख्यारीत्या ५७ १/२ श्लोकात्मकोऽयं सर्ग इति प्रतीयते । 'अद्य मे सफलं' इति वा अन्यद्वा अर्धमधिकं स्यादिति प्रतिभाति ॥