पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८ सर्गः]
189
पूजयामास राजा तं विश्वामित्रं महामुनिम्

 अपि ते सन्नताः सर्वे सामन्ता रिपवो जिताः ॥ ४५ ॥
 दैवं च मानुषं चापि कर्म ते साध्वनुष्ठितम् ।

 राज्ञो विशेषः कुशलप्रश्न प्रकारः-अपि त इत्यादि । अपिः प्रश्ने । सामन्ताः सन्नताः-प्रवणा अपि ? रिपवो जिता अपि ? दैवं-देव-लोकोपकारकम् । मानुषं-मनुष्यलोकोपकारकम् । तत्राद्यं कर्म नित्यनैमित्तिकप्रायश्चित्तरूपं, द्वितीयं सामादिषट्कर्मरूपम् ॥ ४५ ॥

 वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः ॥ ४६ ।।
 ऋषींश्चान्यान् यथान्यायं महाभागानुवाच ह ।

 मुनिपुङ्गवः-विश्वामित्रः; वसिष्ठं च पुरोहितत्वात् राजक्रियाग्निहोत्रदेवपूजागृहादौ स्थितं स्वकार्यार्थं समागम्य-यथान्यायं प्रणामादिपूर्वं सङ्गत्य तान् प्रसिद्धान् वामदेवादीन् ऋषींश्च यथान्यायं समागत्य कुशलं चोवाच । कुशलप्रश्नमपि कृतवानित्यर्थः ॥ ४६ ॥

 ते सर्वे हृष्टमनसस्तत्र राज्ञो निवेशनम् ॥ ४७ ॥
 विविशुः पूजितास्तत्र निषेदुश्च [१]यथार्हतः ।

 एवं स्वकार्यार्थं कृतसङ्गमा वसिष्ठादयः सर्वे राज्ञो निवेशनं-तत्सभारूपं विविशुः । पूजिता इति । राज्ञेति शेषः ॥ ४७ ॥

 अथ हृष्टमना राजा विश्वामित्रं महामुनिम् ॥ ४८ ॥
 उवाच परमोदारो हृष्टस्तमभिपूजयन् ।

 परमोदारः-परमदाता । "उदारो दातृमहतोः" हृष्टः- पुलकितः । 'हृषेर्लोमसु' इतीडभावः ॥ १८ ॥


  1. यथाऽर्हतः-यथान्यायं, प्रथमार्थे तसिः-गो.