पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
190
[बालकाण्डः
विश्वामित्रागमनम्

 यथाऽमृतस्य सम्प्राप्तिः यथावर्षमनूदके ॥ ४९ ॥
 यथा सदृशदारेषु[१] पुत्रजन्माप्रजस्य च ।

 अनूदके-'अन्येषामपि' ति दीर्घः । सहशदारेषु-जातिवयोरूप-कुलगुणतुल्येष्वित्यर्थः ॥ ४९ ॥

 प्रणष्टस्य यथा लाभो यथा हर्षो महोदये ॥ ५० ॥
 तथैवागमनं मन्ये स्वागतं ते महामुने ! ।

 यथा प्रणष्टस्य-अदृष्टस्य निजपित्रादिस्थापितनिध्यादेः लाभः यथा महोदयः-महः-पुत्रविवाहाद्युत्सवः तस्य उदयो यस्य स तथा, तादृशो हर्षो यथा, तथैव ते आगमनं अचिन्तितोपनतमिति सन्तोषकरं सिद्धं मन्ये । हे महामुने ! ते स्वागतम् ॥ ५० ॥

 कं च ते परमं कामं करोमि किमु हर्षितः ॥ ५१ ॥
 पात्रभूतोऽसि मे ब्रह्मन् ! दिष्ट्या प्राप्तोऽसि धार्मिक ! ।

 कं च ते परमं कामं-अभीष्टं करोमि-कुर्याम्, वर्तमान सामीप्ये वर्तमानवल्लट् । हर्षितः-तत्कारणमपि मे सिध्यति किमु ! मे त्वद्विषयकमत्कर्तृकसर्वशुश्रूषाणां पात्रभूतस्त्वं दिष्ट्या-शुभादृष्टवशेन प्राप्तोऽसि ॥ ५१ ॥

 [२]अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ ५२ ॥
 पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ।
 ब्रह्मर्षित्वमनु प्राप्तः पूज्योऽसि बहुधा मया ॥ ५३ ॥


  1. अप्रजस्य-अपुत्रस्य यथा पुत्रजन्मेत्यन्वयः
  2. एतदनन्तरं-यस्माद्विप्रेन्द्रमद्राक्षं सुप्रभाता निशा मम-इदमधिकं-ङ.