ते गत्वा राजभवनं विश्वामित्रमृषिं तदा ॥ ४० ॥
प्राप्तमावेदयामासुः [१]नृपायेक्ष्वाकवे तदा ।
इक्ष्वाकव इति । तद्वंशजत्वाताच्छब्द्यम् । तथा सर्वत्र ॥ ४० ॥
तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः ॥ ४१ ॥
प्रत्युजगाम तं हृष्टो ब्रह्माणमिव वासवः ।
सपुरोधाः-पुरोहितसहितः । ब्रह्माणमिति । [२]बृहस्पतिमिति यावत् । तथा हि-'बृहस्पतिर्देवानां ब्रह्म' इति ॥ ४१ ॥
तं दृष्ट्वा ज्वलितं दीप्तया तापसं संशितव्रतम् ॥ ४२ ॥
प्रहृष्टवदनो राजा ततोऽर्ध्यमुपहारयत् ।
ज्वलितमिति । अकर्मकत्वात् 'गत्यर्थाकर्मक' इति कर्तरि क्तः । संशितव्रतं-तीक्ष्णनियमम् । शो तनूकरणे, 'शाच्छोरन्यतरस्यां' ; तादौ कितीत्वम् । उपहारयदिति । अडभावश्छान्दसः ॥ ४२ ॥
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ॥ ४३ ॥
कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ।
कुशलं-यथास्थितस्य परिपालनं ; व्ययः-अपायः, तदभावः अव्ययं ; सुखाभिवृद्धिमनुपद्रवञ्चेत्यर्थः ॥ ४३ ॥
पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥ ४४ ॥
कुशलं कौशिको राज्ञः पर्यपृच्छत्सुधार्मिकः ।
किं विषयकः कुशलादिप्रश्न इत्यतः-पुर इत्यादि । अथ विशिष्य प्रश्नः-कुशलमित्यादि ॥ ४४ ॥