तेषामपीति निर्धारणे षष्ठी। सर्वगुणसमुदित इति शेषः । इष्टः सर्वस्येत्यादि । गुणकथने पौनरुक्त्यं अलङ्कार इत्यादावेवोक्तम् ॥ २५ ॥
गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु संमतः ॥ २६ ॥
धनुर्वेदे च निरतः पितुः शुश्रूषणे रतः ।
रथचर्यासु । रणोचितरथप्रचारेष्वित्यर्थः ॥ २६ ॥
बाल्यात्प्रभृतिसुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः ॥ २७ ॥
रामस्य लोकरामस्य भ्रातुर्येष्ठस्य नित्यशः ।
बाल्यादिति । प्रभृतियोगे पञ्चम्यस्ति । लक्ष्मिवर्धन इति । 'ड्यापोः संज्ञाछन्दसोः' इति ह्रस्वः । परस्तु मृषाह 'इको ह्रस्वः' इति । लोकान् रमयतीति लोकरामः । ण्यन्तात्कर्मण्यण् ॥ २७ ॥
सर्वप्रियकरस्तस्य रामस्यापि शरीरतः ॥ २८ ॥
लक्ष्मणो लक्ष्मिसम्पन्नो बहिः प्राण इवापरः ।
सर्वेत्यादि । अन्तः प्राणात् अपरः-अन्यः बहिश्वरन् प्राण इव रामस्य निरतिशय प्रेमास्पदभूतो लक्ष्मण: ; अत एव रामस्य शरीरतः -स्वशरीरादपि सवाप्रयकरः-सकलानुकूलकर्मकारी बभूव ॥ २८ ॥
न च तेन विना निद्रां लभते पुरुषोत्तमः ॥ २९ ॥
मृष्टमन्नमुपानीतमश्नाति न हि तं विना ।
तेन-लक्ष्मणेन, "पृथग्विना" इति तृतीया । अन्यतरस्यां-ग्रहणात् तं विनेत्यपि ॥ २९ ॥
यदा हि हयमारूढो मृगयां याति राघवः ॥ ३० ॥
तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् ।